SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ २१४ गच्छाचार-प्रकिर्णकसूत्रम् १२ प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोर्द्वयोर्गीतार्थयोयूंढपदैरालोचनाजातातीचारनिवेदनमाज्ञाव्यवहारः, कोऽर्थः? यदा द्वावयाचार्यावासेवितसूत्रार्थतयाऽतिगीतायौँ क्षीणजङ्घाबलौ विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारसेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्रागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति ३। इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य कचिदपराधे या शुद्धि प्रदत्ता तां तथैवावधार्यसोऽपि शिष्यस्तथैवापराधेप्रयुङ्क्तेतदाऽसौधारणाव्यवहारः, उध्धृतपदधरणरूपा वा, कश्चित्साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्यो तपदानि ददाति, तेषां पदानां धरणं धारणाव्यवहारः ४, द्रव्यादि विचिन्त्यसंहननादीनां हानि ज्ञात्वा चोचितेन केनचित्तपःप्रकारेण यां गीतार्था शुद्धिं दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तंकारणतःप्रवर्तितं अन्यैश्च बहुभिरनुवर्तितंतत्तत्र रूढंजीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थोऽनेकदोषसम्भवादिति, अपिशब्दादनेकभव्यानां विधिना दत्तालोचनस्तेनापीति । अथालोचनायां दृष्टान्तमाहमू. (१३) जह सुकुसलोऽवि विजो अन्नस्स कहेइ अत्तणो वाहिं। विज्जुवएसं सुच्चा पच्छा सो कम्ममायरइ ।। वृ.जह सु०॥यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयःप्राप्तोऽपि, 'वैद्यः' चिकित्साकर्ता 'आत्मनः' स्वस्य व्याधि' रोगोत्पत्तिं 'अन्यस्य' परवैद्यस्य 'कथयति' यथास्थितंनिरूपयति, 'वैद्योपदेश' वैद्यनिरूपितं श्रुत्वा' आकर्ण्य पश्चात् परवैद्यकथनानन्ततरं सः-वैद्यस्तद्वैद्यौक्तं 'कर्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थ, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति ॥१३॥अथाचार्यकृत्यं किञ्चिदाहमू. (१४) देसं खित्तं तु जाणित्ता, वत्यं पत्तं उवस्सयं। संगहे साहुवग्गं च, सुत्तत्थं च निहालई॥ वृ. देसं० ।। 'देशं' मालवकादिकं क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा वस्त्रं' आचाराङ्गाधुक्तविधिना चीवरं पात्रं' पतद्ग्रहादिकं उपाश्रयं स्त्रापशुपण्डकवर्जितमुनियोग्यालयं संगृह्णीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति। ___ तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्गं च नतु हीनाचारवर्गं, तथा सूत्र-गणधरादिबद्धं तस्यार्थी-नियुक्तिभाष्यचूर्णिसङ्गहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy