________________
पू० १४६
कटान्तर्वर्त्ती प्रच्छन्नरक्षितो भवतीति, तथा अन्यस्तत्कटाक्षबाणसमूहेन ग्लानीकृतः पटकान्तरेवस्त्रविशेषान्तरे स्थपितो भवेत् ग्लानवदिति ॥
मू. (१४७)
गंगाए वालुयाए सायरे जलं हिमवओ य परिमाणं । उस तवस गई गप्पत्तिं च विलयाए ।। सीहे कुडंबुयारस्स पुट्टलं कुक्कुहाईयं अस्से। जाणंति बुद्धिमंता महिलाहिययं न जाणंति ॥
यू. (१४८)
वृ. 'गंगाए० सीहे कु०' अनयोर्व्याखया - गङ्गायां वालुकां - वेलुकणान् सागरे - समुद्रे जलं - जलपरिमाणमित्यर्थ:, हिमवतो - महाहिमवन्नगस्य परिमाणम्-ऊर्ध्वाधस्तिर्यकपरिधिप्रतरघनमानं, उग्रस्य- तीव्रस्य तपसो गतिं - फलप्राप्तिरूपं गर्भोत्पत्तिं च 'विलयाए' त्ति वनितायानार्या सिंहे कुण्डबुकारमिति रूढिगम्यं पुट्टलं-निजजठरोद्भवं 'कुक्कुहाइयं' ति गतिकाले शब्दविशेषं अश्वे - घोटके जानन्ति - अवगच्छन्ति बुद्धिमन्तः- प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलितकलकण्ठोद्गीयमानमधुरगेयध्वनिमृगीकृतमुनिवराया ललाटपट्टतटघटितघन श्रीखण्डतिलकचन्द्रचकोरीकृतचतुरायाः पीनपयोधरपीठलुठननिर्मलामलकस्थूलमुक्ताफलहारश्वेतध्ग्विषभुजङ्गमगतविवेक चैतन्यकृतानेकपण्डितायाः हृदयं - गूढान्तःकरणं न जानन्ति न सम्यगवगच्छन्तीति,
उक्तश्ञ्च
119 11
"स्त्री जाती दाम्भिकता भीरूकता भूयसी वणिगजातौ । रोषः क्षत्रियजातौ द्विजातिजाती पुनर्लोभः ॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेर्ष्याचाटुभयार्थदानविनयक्रोधक्षमामार्द्दवैः । लज्जायौवनभोगसत्यकरुणासत्वादिभिर्वा गुणै गृह्यन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः ॥ एरिसगुणजुत्ताणं ताणं कइयव्वसंठियमणाणं ।
पू. (१४९)
नहु वीससियव्वं महिलाणं जीवलोगंमि ।।
वृ. 'एरिसगुण०' ईशगुणयुक्तानां उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां कपिकवत् - वानरवत् (अ) संस्थितमनसां नैव 'मे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥
मू. (१५०)
॥१॥
१९१
निद्धन्त्रयं च खलयं पुष्फेहिं विवज्जियं व आरामं । निहुद्धियं च धेणुं लोएवि अतिल्लियं पिंडं ॥
वृ. 'निद्धन्नयं०' याध्शमिति गम्यते, निर्धान्यकं-धान्यकणविवर्जितं 'खलयं' ति धान्यपवित्रीकरणस्थानं ताध्शं महिलामण्डलमरमणीयत्वात् सुखधान्यकणाभावाच्च, याध्शं पुष्पैःसुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात्, या शा निर्दुग्धिका - दुग्धरहिता धेनुः --गौस्ताध्शा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात्, तथा लोके अपिशब्दः पूरणार्थे याध्शं 'अतिल्लियं' ति सर्वथा तैलांशरहितं पिण्डं-खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org