SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकिर्णकसूत्रम् १४४ वृ. 'दोससय०' दोषशतगर्गरिकाणां दोषाः - परस्परकलहमत्सरगालिप्रदानमर्मोदघाटनकलङ्कप्रदानाजल्यजल्पनशापप्रदानस्वपरप्राणघातचिन्तनादयस्तेषां शतनि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस०' यशसः शतानि यशः शतानि न यशःशतान्ययशः शतानि तेषु विसर्पत्-विस्तारं गच्छत् हृदयं - मानसं यासां ता अयशः शतविसर्पदहृदयास्तासां तथा 'कइयव 'त्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्त्तादीनि 'पन्नत्ती' ति प्रज्ञाप्यन्ते - प्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानांदम्मानां प्रकृष्टाः ज्ञप्तयो - ज्ञानानि कमल श्रेष्ठिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया- बुद्धेराप्ति - आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञाप्तीनां वा, तथा 'ताणं 'ति तासां नारीणामज्ञातशीलानां पण्डितैरप्यज्ञातस्वभावानां यदुक्तं 119 11 १९० 'देवाण दानवाणं मंत मंतंति मंतनिउणा जे । इत्थीचरियंमि पुणो ताणवि मंता कहं नट्ठा ।। जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दीसइ पभट्ठमज्जाया ।। ॥२॥ ॥ ३ ॥ मच्छपयं जलमज्झे आगासे पंखियाण पयपंती । महिलाण हिययमग्गो तित्रिवि लोए न दीसंति ।। इति । यद्वा न ज्ञातं - नाङ्गीकृतं शीलं - ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां यद्वा नञः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभि परिव्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्गैकान्तजल्पनैकत्रवासविश्वाससहचलनादिव्यापारो वर्जनीय इति । यू. (१४६ ) अन्नं रयंति अन्नं रमंति अन्नस्स दिंति उल्लावं । अन्नो कडअंतरिओ अन्नो पडयंतरे ठविओ || वृ. 'अनं रयंति०' द्वित्र्यादिपुरुषसम्भवेऽन्यं - स्वभावसमीपस्थं नरं रजंति- अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः-, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत्, यद्वा स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति' त्ति अन्यद् - विषभक्षणकाष्ठभक्षणादिकं रचयन्तिकपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति' त्ति अन्यदात्म व्यतिरिक्तं- तृणतन्तुदंडादि रदन्ति- उत्पाटनं कुर्वन्तीत्यर्थः, 'रद विलेखने' इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति' त्ति अन्यं - स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः क्रीडन्तीत्यर्थः, पातालसुन्दरीवत् । यद्वा 'अन्नं रयंति'त्ति अन्यं - स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति रामाअधमकामाः रयि गतौ रबु गतौ च रयते रम्बन्ति वा गच्छन्ति तथा द्यूतादिप्रकारेण क्रीडयन्ति वा 'अन्नस्सदिति उल्लावंति अन्यस्य-उक्तव्यतिरिक्तस्य ददति-प्रयच्छन्ति 'उल्लावं' ति वचनं - बोलरूपं यद्वा अनेक नरपरिवृता अप्यन्यस्य नरस्य मार्गादि गच्छतः स्थितस्य वोत् प्राबल्येनोल्लापंमन्मथोद्दीपनशब्दं ददतीति, 'उल्लायं' ति पाठे तु कामिनरद्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उल्लातं-प्रबलपादप्रहारमित्यर्थः, तथा अन्यः कश्चिद् बलिवर्द्दरूपः कटान्तरितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy