________________
मू० १४३
१८९
'ताडनानि' सतनपीडनानि - कराभ्यां पयोधरचम्पनानि हस्ताभ्यां कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तजणाहिं चे 'ति तर्जनानि - अङ्गुलिमस्तकतृणादिचालनानि तैर्मन्मथपीडामुत्पादयन्ति कामिनां, चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याद्यनेकप्रकारैर्नरान् बइल्लतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्यः सर्वथा सर्वदैव इति ।
तथा 'अवियाई' ति पूर्ववत् 'ताओ पासो व वयसिउं जे' इति 'जे' इतिप्राकृतत्वात् लिङ्गव्यत्ययः याः करण्डादयः स्त्रियः सन्ति जगति 'ताउ'त्ति ताः पुरुषान् पाशवत् - नागपाशवागुरादिबन्धनवत् 'ववसितुं०' धातूनामनेकार्थत्वात् बन्धितुं वर्तन्ते, इह परभवे नराणां बन्धनकारणत्वात्, 'पंकुव्व खुप्पि उं जे' त्ति 'ताउ'त्ति अग्रेऽप्यनुवर्त्तते, याः कुलटादयः सन्ति विश्वे ताः नरान् पङ्कवत् - अगाधार्द्रबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं०' क्षेतुं खूचयितुं वर्त्तन्ते, 'मव्व मरिडं जे' त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत् - कृतान्तवत् 'म' मारणार्थमित्यर्थ मारयितुं प्रवर्त्तन्ते, 'अगणिव्व डहिउं जे' त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धुं - ज्वालयितुं परिभ्रमन्ति, 'असिव्व छिज्जिउं जे' त्ति याः तरुणीपरिव्राजिकादयः सन्ति ताः कौटिल्य करण्डाः साधूनप्यसिवत् खङ्गवत् छेत्तु-द्विधाकर्त्तुमुत्सहन्ते । अथ स्त्रीवर्णनं पद्येन वर्णयति यथामू. (१४४)
असिमसिसारच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतबीभच्छभावाणं ।।
वृ. ' असिमसि० ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? –असिमषीसक्षीणां - करवालकज्जलतुल्यानां, अयमाशयः - यथा खङ्गः पण्डितेतरान नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभावेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बनादिहेतुत्वात्, पुनः किंभूतानां ? -कान्तारकपाटचारक समानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः -- यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते ति केनापि कुत्रापि धर्मवनाद गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति ।
पुन किंभूतानां ? - 'घोरनि०' घोरो - रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगाधमित्यर्थः यत्कमिति जलं तस्मादिव दरो भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भावः - आन्तरमायावक्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलदबीभत्सभावास्तासां घोरभावानाम् ।
मू. (१४५)
दोससयगागरीणं अजससयविसप्पमाणहिययाणं । apraपनत्तीणं ताणं अन्नायसीलाणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org