________________
१८८
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १४३ सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थं 'काई०' 'ससई सासिच्च ववहरंति'त्ति काश्चित्सशब्दं यथा स्यात्तथा व्यवहरन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, कइव 'सासिव्व' श्वासोच्छ्वासरोगिवत्, पुरुषाणां स्नेहभावोत्पादनार्थः, ‘काई०' काश्चित् शत्रुवत् प्रवर्तयन्ति मारणार्थं मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थं रिपुवत्प्रवर्तयन्ति, 'रोरोइव का०' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्तिलगन्तीत्यर्थः, 'काई०' काश्चिदुपनतै-नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थः, 'काईकोउ०' काश्चित् कौतुकं-वचननयनादिभावं कृत्वाविधाय नमन्ति नराणां हास्याधुत्पादनार्थः, 'काइ इति पदमग्रेऽपि योज्यम्।
'सुकडनिरिखिएहितिकाश्चित्सुकटाक्षनिरीक्षितैः-सुठुनेत्रविकारनिरीक्षणैः बालान् पातयन्तीति शेषः, “सविलासमहुरेहिं तिसविलासानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, 'उपहसिएहिन्ति उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, ‘उवग्गहिएहिंति उपगृहितानि-पुरुषस्यालिङ्गनलिङ्गग्रहकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्यन्तीति, "उवसद्देहिंति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानिवातैः काश्चित् कामिनां कामरागंप्रकटयन्तीति, गुरुगदरिसणेहित्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोचत्वात् सुन्दराणि वा यानि दर्शनानि च
___ आकृतयस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु' इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरुंस्वजनकभर्द्रादिकमपि विप्रता
कार्ये प्रवर्त्तयन्ति, 'रु' इति रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति २ 'ग०'इति स्वपितुर्ग्रहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामकुर्वन्तीतिआर्षत्वात् रि' इति यद्वा अरिइति रतिकलहे-अरेमयासह मा कुरूप-हासमित्यादिरतिकलहकरणेन पुरुषं क्रीडयन्तीति आर्षत्वात् अरि इति ५ 'स'इति अन्योक्तश्र - गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६ 'ण'इति सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुषं सकामं स्ववशंसगद्गद स्वकार्यकर्तारमपराधमोक्तारं कुर्वन्तीतिगुरुगदरिसणेहिं _ भूमिलिहणविलिहणेहिं चेति भूमिलिखनानि-भूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगुह्यं पुरुषाणां ज्ञापयन्ति इति भूमि (लेखनवि) लेखनैरिति चकारौ अत्र समुच्चयार्थी 'आरुहणनट्टणेहिंच'त्ति आरुहणानि-वंशाग्रादिचटनानि नर्तनानि--भूमौ नृत्यकरणानि तैः आरुहणनतनैः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, 'वालयउवगृहणेहिंचे ति बालकाः-मूर्खाः कामिन इत्यर्थः तेषामुपगृहनानि-प्रच्छन्नरक्षणादीनि तैलिकोपगूहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा वालकाः केशकलापास्तेषामुपगृहनानि-रचनास्वच्छवस्त्रच्छादितादीनि तैर्मन्मथग्रस्तानधमादमान् स्ववशे कृत्वा बलिववत् वाहयन्तीति, चशब्दात् कपिवत्भ्रामयन्ति, अश्ववारयन्तिश्रेणिकभार्याधनश्रीराज्ञीवत, स्वार्थाप्राप्ती प्राणत्यागमपि कुर्वन्तीति, अंगुलि०' अङ्गुलिस्फोटनानि–कडिक्काकरणानि यद्वा अङ्गुलीनांपरस्परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org