SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १८६ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १४३ पक्षपाते पुरुषस्य परस्परंमैत्र्यादिविनाशहेतुत्वात्, यद्वा अन्तः-मध्ये रंग० ति पुरुषाणांब्रह्मद्रतचारिवादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् ८०। अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः ८१ अदारुय'त्तिअदारुका-काष्ठादिरहिता अटवी-कान्तारं, यथा अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापिनज्वलति तथेमाः पापंकृत्वा न ज्वलन्ति, नपश्चात्तापंकुर्वन्तीत्यर्थः-,वृषभकलङ्कदात्रीश्रावकभार्यावत् ८२ 'अणाल०' न आलस्यं अनुत्साहोऽनालस्यं तस्य निलयः, आकार्यादौ सादरं प्रवृत्तिहेतुत्वात् ८३ 'अइक्ख०' ईक्ष दर्शनाङ्कनयो रितिवचनात् अनीक्ष्यवैतरणीअश्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्गे तदवाप्तिहेतुत्वात्, अतीक्ष्णवैतरणी वा ८४ 'अणा०' अनामिको-नामरहितो व्याधि-असाध्यरोगः इह परत्र च कारणत्वात् ८५। ___'अविओ०' न विद्यते वियोगः-पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः-परिदेवनं ८६ अरु०' अरुक्-रोगरहितः उपसर्ग, यद्वाऽर्षत्वाद्वकारलोपे अस्पोरूपरहितः उपसर्गः-उपपातः ८७ रई' रति-कामप्रिया विद्यते अस्येतिरतिमान्कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात्, यद्वा रतिमान्–सुखदायी मनोभ्रमो मनोविकारः ८८ सव्वंग०' सवाङ्ग:-सर्वशरीरव्यापी दाहः ८९।। 'अणब्भया वजासणीति अनभ्रका अभ्रकरहिता वज्राशनि-विद्युत्, यद्वा इयं-स्त्री 'असणी त्ति अशनि-विद्युत्, किंभूता?-अनभ्रकाःआकाशरहिता मेघरहिता वा, पुनः किंभूता वज्रा-वज्रतुल्येत्यर्थः, दारुणविपाकहेतुत्वात्, 'अपसूया वजासणीति पाठे अप्रसूता-अपत्यजन्मरहिता वजेतिवर्या-सन्दराकाराएवंविधारामा असणीति-अशनि-विद्युत, बालानांनरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वज्जासुणी त्तिपाठेतुअप्रसूता-नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा ‘सुणी ति हडुक्किलाशुनीवत्मण्डलीवत् ‘वज्जे तिवासर्वथा साधुभिर्मोक्षकाङिभिब्रह्मचारिभिश्च-चतुर्थव्रतरक्षाकाक्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ९०। 'असलि०' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः-जलं विना रेल्लिरित्यर्थः ९१ समुद्दरउत्ति समुद्रवेगः केनापिधर्तुमशक्यत्वात् 'समद्धरउत्तिपाठेतुसम्यक् अर्धं यस्मात् स समर्धः, एवंविधः 'रउत्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाद्यर्धकरणहेतुत्वात्, भद्रातिभद्राख्यौ श्रेष्ठिपुत्राविव ९२ । मू. (१४३) अवियाइंतासिं इत्थियाणं अनेगाणि नामनिरुत्ताणिपुरिसे कामरागपडिबद्धे नानाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अस्थिति नारीओ, तंजहा-नारीसमा न नराणं अरीओ नारीओ, नानाविहेहिं कम्मेहि सिप्पियाईहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाईहिं रमंतित्ति रामाओ, पुरिसे अंगानुराए करंतित्ति अंगनाओ। नानाविहेसु जुद्धभंडणसंगामाडवीसु मुहाणगिण्हणसीउण्हदुक्खकिलेसमाईसु पुरिसे कालंतित्ति ललनाओ, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ, पुरिसे नानाविहेहि भावेहिं वण्णंतित्ति वणियाओ, काई पमत्तभावं काई पणयंसविब्भमंकाईससई सासिब्ब ववहरंति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy