________________
मू०१४३
सा-समन्तात् ददति पुरुषाणां सूरीकान्तावत् यास्ताः अतिविषादाः, यद्वा अतीति भृशं वीति नानाविधः स्वादो-विषयलाम्पट्यं यासां ता अतिविस्वादाः, अथवा अतिविषयात्प्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठी नरकभूमिं यावत् सुसढमातृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाधकारलोपे सन्धघि, यद्वा स्वेन्द्रियविषयाप्राप्तौ अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषं तीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषं-तीव्र पुण्यं येषां ते अतिवृषा-मनुयस्तेषामा समन्तात् वसत्यन्तो बहिश्च 'कायंते' यमायते यम इवचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा-'कायंति' अग्नयन्ति समितिगृहज्चालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यधने आ-भृशं चायंति-चौर इवाचरन्ति यास्ता अतिवृषाचाः ५९ । ___ 'दुगुं०' जुगुप्सनीया जुगुप्सां कर्तुं योग्याः मुनीनां ६० 'दुरु०' दुरुपचाराःदुष्टोपचाराः-दुष्टोपचारान्वितवचनादिविस्तारोयासांतास्तथा ६१ अगंभीराः-गांभीर्यादिगुणरहिताः ६२ 'अवि०' अविश्वसनीयाविश्रम्भं कर्तुयोग्या न ६३ अण' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६४ दुःखरक्षिताः-कष्टेन रक्षणयोग्या यौवनावस्थायाम् ६५ दुःखपालिता-दुःखेन पालयितुं शक्याः बालावस्थायाम् ६६ अरतिकराः-उद्वेगजनकाः ६७ कर्कशाः-इह परत्र च कर्कशदुःखोत्पादकत्वात् ६८ ६ढवैराः-इह परत्र च दारुणवैरकारणत्वात् ६९ रूपसौभाग्यमदोन्मत्ताः, तत्र रूपं चार्वाकृति सौभाग्यं-स्वकीर्तिस्रवणादिरूपं मदो-मन्मथजगर्व : ७०।
_ 'भु०' भुजगगतिवत् कुटिलहृदयाः ७१ 'कंता०' कान्तारगतिस्थानभूताः-कान्तारेदुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोर्भूताः-तुल्याः, तारुणमहाभयोत्पादकत्वात् ७२ “कुल० कुलस्वजनमित्रभदनकारिकाः-वंशज्ञातिसुहृदविनाशजनिकाः७३ पर०' परदोषप्रकाशिकाः-अन्यदोषप्रकटकारिकाः ७४ 'य०' कृतं-वस्त्रभरणपात्रादि प्रदत्तं घ्नन्ति-सर्वथा नाशयन्तीत्येवंशीलाः कृतघ्नाः ७५ 'बलसों०' बलं-पुरुषवीर्यं प्रति सङ्गेऽसङ्गे वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वस्वामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिकाः-तच्छुद्धिकारिकाः बलशोधिकाः यद्वा बवयो रलयोरैक्यात् वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् ७६। ___“एकं०' एकान्ते-विजने हरणं नेतव्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दूरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरणं-तत्र पुरुषाणां विषयार्थं लात्वा गमनमित्यर्थः, तत्र लोका:-वनशुकरतुल्याः, यथा शूकरः कमपि सारं कन्दादिकं भक्ष्यं प्राप्य विजने गत्वा भक्षयति तथेमाः ७७ चञ्चलाः-चपलाः ७८ 'जोइभंडोवरागो विव मुहरागविरागाओ'त्ति ज्योतिर्भाण्डो परागवत्-अग्निभाजनसमीपरागवत् मुखरागविरागाः यथाऽग्निभाजनसमीपं मुखं रागवत् भवति अन्तेविरागंतथेमाः यद्वा 'जोइभंडो विवरागाओत्ति०' पाठे तुज्योतिर्भाण्डस्येवोपरागाः, यथा ज्योतिर्भाण्डं-अग्निभाजनं उप-समीपे रागवत् भवति तथेमा वस्त्रादिभिरुप-समीपे रागवत्यो भवन्तीत्यर्थः ७९ 'अवि याइंति०' अपिचेत्यभ्युच्चये 'आइंति वाक्यालङ्कारे 'ताओ' ताः स्त्रयः 'अंतरं' अन्तरङ्गभङ्गशतं-अभ्यन्तरविघटनशतपस्याः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org