________________
१८४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १४३ निर्विशेषाः-विशेषवर्जिताः ३९ 'कालो त्तिदुर्मिक्षकालः एकान्तदुष्षमाकालो वा यद्वालोकोक्ता दुष्टसर्पः तद्वनिरनुकम्पा:-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४० ।
'वरु०' वरुणवत्पाशहस्ताः पुरुषाणामालिङ्गनादिभिकामपाशबन्धनहेतुहस्तत्वात् ४१ 'सलिल' सलिलमिव-जलमिव प्रायो नीचगामिन्यः स्वकान्तनृपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४२ किव०' कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् ४३ 'नरउ०' नरकवत्उत्रासनीयाः, दुष्टकर्मकारित्वात्महाभयङ्कराः लक्षणासाध्वीजीववेश्यादासीघातिकाकुलपुत्रभार्यावत् ४४ 'खरो०' खरवत्-विष्ठाभक्षकगर्दभवत् दुःशीला:-दुष्टाचाराः, निर्लज्जत्वेन यत्रतत्रग्रामनगरारण्यमार्गक्षेत्रगृहोपाश्रयचैत्यगृहगतवाटिकादौ पुरुषाणां वाञ्छाकारित्वात्, तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४५।
“दुट्ठस्सो०' दुष्टाश्ववत्-कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारैर्निर्लज्जीकृताः, अपि-पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षणहेतुत्वात् ४६ ‘बालो बालवत्-शिशुक्त् मुहूर्तहृदयाः, मुहूर्तनन्तरं प्रायोऽन्यत्र रागधारकत्वात्, कपिलब्राह्मणासक्तदासीवत् ४७ 'अधका०' कृष्णभूतेष्टादिभवमन्धकारं अरुणवरसमुद्रोद्भवतमस्कार्यवातद्वद्दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४८ 'विस'विषवल्लीवत्-हालाहलविषलतावत् अण०' अनाश्रयणीयाः-सर्वथा सङ्गादिकर्तुमयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात्, पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ४९ 'दुट्ठ०' दुष्टग्राहा-निर्दयमहामकरादिजन्तुसवितवापीवत्अनवगाह्याः-महता कटेनापिअप्रवेशयोग्याः सुदर्शनश्रेष्टिवत् ५०। ___'ठाण०' स्थानभ्रष्टः ईश्वरो-ग्रामनगरादिनायकस्तद्वत् यद्वा स्थानं-चारित्रगुरुकुलवासादिकंतस्मात्भ्रष्टः ईश्वरः-चारित्रनायकः साधुरित्यर्थः तद्वत्, यद्वा स्थान--सिद्धान्तव्याख्यानरूपं तस्मात्भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरो-गणनायक आचार्यइत्यर्थः तद्वत्, यद्वा स्थानभ्रष्टो-दुष्टाचारे रक्त इत्यर्थः, ईश्वरः-सत्यकीविद्याधरस्तद्वत्, अप्रशंसनीयाः-साधुजनैः प्रशंसां कर्तुयोग्या नेत्यर्थः ५१ "किंपाग०' किंपाकफलमिव-विषवृक्षफलमिव मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रिवत् ५२ 'रित्तमुट्ठी०' रिक्तमुष्टिवत्-पोल्लकमुष्टिवत् बाललोभनीयाः-अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् ५३ मंस०' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात्मांसपेसी प्राप्ता तस्यान्यदुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहभवे परभवे च दारुणा उपद्रवा जायन्ते, यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः ५४ 'जलि०' अमुञ्चन्ती-अत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभावा ५५ |
___ 'अरि०' अरिष्ठमिव निबिडपापमिव दुर्लक्नीयाः ५६ 'कूड०' कूटकार्षापण इव असत्यनाणकविशेष इव कालविसंवादनशीला:-कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः ५७ 'चंड०' चण्डशील इव-तीव्रकोपीव दुःखरक्षिताः ५८।
_ 'अतिविसाउ'त्ति अतिविषादाः दारुणविषादहेतुत्वात्, यद्वा 'अती'ति अतिक्रान्तो गतोऽकार्यकरणे विषादः-खेदो यासां तास्तथा, यद्वा अतीति-भृशं विषं अतिविषं अतिविषं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org