________________
मू०१४३
१८३
-दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् १५।
- 'माई०' मातृकायाः समूहः कमलश्रेष्ठिसुतापदमिनीवत् १६ ख०' स्खलना-खण्डना ज्ञानस्य-श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादहनकक्षुल्लकवत् १७ चल०' चलनं शीलस्य-ब्रह्मव्रतस्य, ब्रह्मचारिणांतस्याः सङ्गेतन तिष्ठतीतिभावः १८'विग्घो०"त्ति विघ्नः अन्तरायः धर्मस्य-श्रुतचारित्रादेः १९ अरि०' अरि-निर्दयो रिपुः, केषां?-साधूनां-मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् २०। ___ 'दूष०' दूषणं-कलङ्कः, केषां ? -'आया०' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामःकृत्रिमवनं, कस्य ?-कर्मरजसः-कर्मपरागस्य, यद्वाकर्म च-निबिडमोहनीयादि रश्च-कामः पश्च-चौरः कर्मरचं तस्यारामो-वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य -शिवपथस्य २३ भवनं गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् २४ अवि याओ इमाओ'त्ति
अपि च इमा-वक्ष्यमाणाः स्त्रयः एवंविधाः भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, है आशीविषवत्-इंष्ट्राविषभुजङ्गमवत् कुपिताः-कोपं गताः भवन्ति २५ ।
मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् २६ 'वग्घी०' व्याघ्रीवत् दुष्टहदयाः-दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशहदयाः, शतकश्रावकभायरिवतीवत् २८ 'माया' मायाकारक इव–परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्रयः, तत्रोपचारशतानि-औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउत्तिकत्रयः २८ 'आयरि०' अथ्रापि विवशब्द इवार्थे, आचार्यसविधमिव-अनुयोगकुसमीपमिव बहुभि-अनेकप्रकारैरनेकपुरुषैर्वाग्राह्यः-ग्रहीतुंशक्यःयद्वाऽऽर्षत्वात् 'अगिन्झुत्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भावः-आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा २९ ‘फु फु० फुफुक:-करीषाग्नि कोउ इतिजनोक्तिस्तद्वत् अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात्, उक्तञ्च- , ॥१॥ • “पुत्रश्च मूल् विधवा च कन्या, शठंच मित्रं चपलं कलत्रम्।
• विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ।।"
३० 'नग्ग०' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्गसेनसुवर्णकारजीवस्त्रीवत्, यद्वा नग्नकमार्गवत्-जिनकल्पिपन्थ वत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्-भूतावेष्टिताचारवत् नैकत्रचित्ताः ३१ अंतोदु०' अन्तर्दुष्टव्रणवत् कुथितहृदयाः, तिलभटोन्मत्तरामावत् ३२ "किण्ह०' कृष्णसर्पवत् 'अवि०' विश्वासं कर्तुमयोग्या इत्यर्थः ३३ 'संघा०' संहारवत्-बहुजन्तुक्षयवत् ‘छन्नमाया०' प्रच्छन्नमातृकाः ३४ 'संझ०' सन्ध्याभ्ररागवत् मुहूर्तरागाः तथाविधदुष्टवेश्यावत् ३५।
'समुद्द०' समुद्रवीचिवत्-सागरतरङ्गवत्चलस्वभावाः-चञ्चलस्वाभिप्रायाः ३६ मच्छो०' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासा तास्तथा ३७ 'वान०' वानरवत् चलचित्ताः-चञ्चलाभि प्रायाः ३८ मच्चुवि०' मृत्युवत्-मरणवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org