________________
१७४
तन्दुलवैचारिक प्रकिर्णकसूत्रम् १०५
मेदश्च - अस्थिकृत् चतुर्थो धातुरित्यर्थः मज्जा च-शुक्रकरः षष्ठो धातुरित्यर्थः मासं च - पललं तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च - मस्तकस्नेहः शोणितं च - रुधिरं द्वितीयो धातुरित्यर्थः वालुण्डकश्च - अन्तरशरीरावयवविशेषः चर्मकोशश्च - छविकोषः नासिकासि वानश्च घ्राणमलविशेषः धिडलं च--अन्यदपि शरीरोदभवं निन्द्यमलं तानि तेषामालयं - गृहमित्यर्थः अमनोज्ञकं - मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं - आक्रान्तमित्यर्थः, गलन्नयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोक्तया अवालुखिल्लश्च खील इति जनोक्ति ताभ्यां चिक्कणं- पिच्छलमित्यथः 'चिलिचिलिय' मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन 'मइल' त् मलिनं- मलीमसमित्यर्थः ।
बीभत्सं - भयङ्करं दर्शनं -आकृतिरवलोकनं वा रोदिना कृशावस्थायां यस्य वपुषस्तद् बीभत्सदर्शनं, 'अंसलग' त्ति अंसयोः - स्कन्धयोः 'बाहुलग' त्ति बाह्वोः - भुजयोः अङ्गुलीनां - करशाखानां 'अंगुट्ठग' त्ति अङ्गुष्ठयोरङ्गुलयोः नखानां - महाराजानां (करजानां ये सन्धयस्तेषां सङ्घातेनसमूहेन सन्धितमिदं वपुः 'बहु०' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः - अंसधमनीभि 'अनेगण्हारु' त्ति अनेकस्नायुभि - अस्थिबन्धनशिराभिः बहुधमनिभिः - अनेकशिराभिः सन्धिभिः - अस्थिमेलापकस्थानैश्च 'नद्धं 'ति नियन्त्रितं प्रकटं- सर्वजन श्यमानमुदरकपालं-जठरकडहल्लकं यत्र तत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेव निष्कुटं - कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् कक्षनिष्कुटं कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तदगतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः- तदगतकेशलतास्ताभि कलितं, 'दुरंतं' ति दुष्टः अन्तो - विनाशः प्रान्तो वा यस्य तद्दुरन्तं - दुष्पूरं, अस्थिधमन्योः सन्तानेन - परम्परया 'संतयं' ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं ।
सर्वतः - सर्वप्रकारैः समन्ततः - सर्वत्र रोमकूपै - रोमरन्ध्रः परिस्रवत् - गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्ध्रः परिस्रवत् 'सयं' ति स्वयमेवाशुचि - अपवित्रं 'सभावउ 'त्ति स्वभावेन परमदुष्टगन्धीति 'कालिज्जयअंतपित्तजरहिययफोप्फसफेफसपिलिह' त्ति प्लीहा - -गुल्म 'उदर 'त्ति जलोदरं गुह्यकुणिमं- मासं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत' त्ति द्विगद्रिगायमानं 'हियय'त्ति हृदयं यत्र तत् परमयावत् हृदयं नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहि'त्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं गृहं सर्वौषधायतनं, रोगादावस्मिन् सर्वौषधप्रक्षेपात् सर्वत्र - सर्वभागे दुष्टोऽन्तो - विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो०' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य - अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि ।
'एवं चि०' एवं पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं चेति पदत्रयस्य व्याख्या पूर्ववत्, 'सडण० ' शटनपतनविध्वंसनधर्मं, तत्र शटनं- कुष्ठादिनाऽङ्गुल्यादे - पतनं बाह्वादेः खङ्गच्छेदादिना विध्वंसनं सर्वथा क्षयः एते धर्मास्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयव्वं' त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्ठु भृशं त्वं 'जाण'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं' ति आदिनिधनं सादिसान्तमित्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org