________________
१६८
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ९१ चत्वारिंशत्सहस्राणि च ४०७ ४८४००००॥ मू. (९२) वाससयाउस्सेए उस्सासा इत्तिया मुणेयव्वा।
पिच्छह आउस्स खयं अहोनिसं झिज्झमाणस्स ।। वृ. वासस० वर्षशतायुषः एते पूर्वोक्ता उच्छ्वासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुटयमानस्येति ।। मू. (१३) राइदिएण तीसं तु मुहुत्ता नव सयाई मासेणं ।
हायंति पमत्ताणं न य णं अबुहा वियाणति ।। वृ. राइ०' अहोरात्रेण त्रिंशन्मुहूर्ताभवन्ति, मासेन नवशतानि मुहूनि, तानिप्रमत्तानांमद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा-मूर्खा विजानन्तीति।। मू. (९४) तिनि सहस्से सगले छच्च सए उडुवरो हरइ आउं।
हेमंते गिम्हासु य वासासु य होइ नायव्वं ॥ वृ. 'तिनि०' त्रीणि सहस्राणि षट्शताधिकानि सकलानि-सम्पूर्णानि मूहूर्तानि हेमन्तेशीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवरः सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आबन्तत्वेन स्त्रलिङ्गो बहुवचनान्तश्च ॥ मू. (९५) वाससयं परमाऊ इत्तो पन्नास हरइ निदाए।
इत्तो वीसइ हावइ बालते वुदभावे य। वृ. 'वासस०' साम्प्रतं जीवानां परमायु:-उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो-वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति-गमयति जीवः, इतः-शेषपञ्चाशदवर्षतः विंशतिर्वर्षाणि हीयन्ते--यान्ति प्रमादादिना, कथं ?, बालत्वे दशकं वृद्धत्वे च दशकं चेति । मू. (९६) सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य।
नानाविहा य रोगा हवंति तीसाइ पच्छद्धे ।। वृ. 'सीउ०' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चाधं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन्, को भावः?-शेषत्रिंशतोमध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिर्मुधा यान्तीति || म. (९७) एवं पंचासीई नट्ठा पन्नरसमेव जीवंति।
जे हुंति वाससइया न य सुलहा वाससयजीवा ।। वृ. 'एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्मविना विकथानिद्रालस्यवतां मुधागतानि, कथं? -निद्रया पञ्चाशद्वर्षाणि ५० बालत्वेदश १० वृद्धभावेदश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः-वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात्, न च वर्षशतजीविनो जीवाः प्रायःसुलभाः, दुष्प्रापा इत्यर्थः, उक्तंच-'आयुर्वर्षशतं नृणां परिमितंरात्रौ तदर्धंगतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org