________________
मू० ८३
ज्ञातव्यमिति ॥
पू. (८४)
अहवा सुवन्नमासा चत्तारि सुवट्टिया घना सूई । चउरंगुलप्यमाणा नायव्वं नालियाछिद्दं ॥
वृ. 'अह वा सु०' अथवा चतुर्णां स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचि ? -सु-अतिशयेन वर्त्तिता - वर्तुलीकृता सुवर्त्तिता घना-निबिडा चतुरङ्गुलप्रमाणा, तत्र माषमानं पञ्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ।।
पू. (८५) उदगसस नालियाए हवंति दो आढयाओ परिमाणं । उदगं च भाणियव्वं जारिसयं तं पुणो वुच्छं ।।
वृ. इत्युक्तं घटिकाच्छिद्रप्रमाणम् । अथ घटयां जलप्रमाणमाह-- 'उदगस्स ०' नालिकायांघटिकायामुदकस्य - जलस्य प्रमाणं द्वावाढकौ भवतः, उदकं याद्दशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति 'जारिसयं' तं । मू. (८६)
१६७
उदगं खलु नावं कायव्वं दूसपट्टपरिपूयं । मेहोदगं पसनं सारइयं वा गिरिनईए ।।
बृ. उदकं - जलं खलु - निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीद्दशं कर्त्तव्यमित्याह-- 'दूसपट्ट०' दूष्यपरिपूतं वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं, वा अथवा 'सारय 'ति शरतकालोद्भवं आश्विनकार्त्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं, तच्च स्वभावेन निर्मलं भवतीति पू. (८७) बारस मासा संवच्छरो य पक्खाउ ते उ चउवीसं ।
तिन्नेव य सहिसया हवंति राइंदियाणं च ॥
बृ. ‘बारस’द्वादशभिर्मासैः संवत्सरस्तस्मिन्संवत्सरे चतुर्विशति पक्षा भवन्ति, तेषु षष्ट्याऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति ॥
मू. (८८)
एगं च सयसहस्सं तेरस चेव य भवे सहस्साइं ।
एगं च सयं नउयं हुंति अहोरत्त ऊसासा ।।
वृ. 'एगं च ' एकं शतसहस्रं लक्षं त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छ्वासा भवन्ति ११३१९० इति ॥
मू. (८९)
तित्तीस सयसहस्सा पंचानउई भवे सहस्साइं । सत्तय सया अणूणा हवंति मासेण ऊसासा ।।
Jain Education International
वृ. 'तित्तिस ० ' त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पञ्चनवति सहनणि सप्तशतान्यन्यूनान्येतावन्तो मासेनोच्छ्वासा भवन्ति ३३९५७००, इति ॥
मू. (९०)
चत्तारि य कोडीओ सत्तेव य हुति सयसहस्साइं ।
अडयालीससहस्सा चत्तारि सया य वरिसेण ||
बृ. 'चत्तारि०' चतनः कोट्यः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४०७४८४००, इयन्तः वर्षेणोच्छ्वासा भवन्ति ॥
मू. (९१) चत्तारि य कोडिसया सत्त य कोडिओ हुंति अवराओ ।
अडयाल सयसहस्सा चत्तालीसं सहस्साइं ।।
वृ. 'चत्ता०' । चत्वारि कोटिशतानि सप्तकोटयः अपराण्यष्टचत्वारिंशच्छत- सहस्राणि
For Private & Personal Use Only
www.jainelibrary.org