________________
१६६
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ७५
समयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निश्वासोच्छ्वासेऽसङ्घयेयाः समया भवन्ति ॥ मू. (७६) हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्छइ ।।
वृ. 'हट्ठ०' हृष्टस्य - समर्थस्य 'अणवगल्लस्से' ति रोगरहितस्य 'निरुवकिडस्से ति क्लेशरहितस्य जन्तोः - जीवस्यैको निश्वासोच्छ्वासः एषः प्राण इत्युच्यते इति ।। सत्त पाणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ।।
मू. (७७)
वृ. 'सत्त०' सप्तभि प्राणैः स स्तोकः कथ्यते, सप्तभि स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्य । एष मुहूर्तो व्याख्यातः ॥
मू. (७८) एगमेगस्स णं भंते ! मुहुत्तस्स केवइया ऊसासा वियाहिया ?, गोयमा ! वृ. 'एगमे० ' एकैकस्य हे भदन्त ! मुहूर्तस्य कियन्त उच्छ्वासा व्याख्याताः ? हे गौतम! मू. (७९) तिनि सहस्सा सत्त य सयाण तेवत्तरिं व ऊसासा।
एस मुहुत्तो भणिओ सव्वेहिं अंतनाणीहिं ।।
वृ. 'तिन्नि' गाहा, त्रिभिः सहस्रैः सप्तभि शतैः त्रिसप्तत्योच्छ्वासैः ३७७३ एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥
मू. (८०)
दो नालिया मुहुत्तो सट्ठि पुण नालिया अहोरत्तो ।
पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो ॥
वृ. 'दोनालि०' द्वाभ्यां नालिकाभ्यां - घटिकाभ्यां मुहूर्त्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रैः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥
पू. (८१)
दाडिमपुप्फागारा लोहमई नालिया उ कायव्वा ।
तीसे तलंमि छिदं छिद्दपमाणं पुणो वुच्छं ।
वृ. अथ उक्तनालिकायाः - स्वरूपमाह - दाडिमे 'ति दाडिमपुष्पाकार लोहमयी नालिका-घटिका कर्त्तव्या भवति, तस्या नालिकायास्तले - अधोभागे छिद्रं - रन्ध्रं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥
मू. (८२)
छन्नउइपुच्छवाला तिवासजायाए गोतिहाणीए । असंवलिया उज्जा य नायव्वं नालियाछिदं ।
वृ. 'छन्न' ति षन्नविपुच्छवाला - लाङ्गुलकेशाः, कस्याः - 'गोतिहाणीए 'त्ति गोवच्छिकायाः, किंभूतायाः ? - 'तिवासजायाए 'त्ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानीत्यर्थः, किंभूताः केशाः ? – असंवलिताः न खितानखिटिकाकारा जाताः, अत एव ऋजुकाः- सरलाः एषां वालानां घनमेकीभूतानां याशं प्रमाणं भवति ताध्शं नालिकाच्छिद्रं ज्ञातव्यमिति ॥
पू. (८३)
अहवा उ पुच्छवाला दुवासजायाए गयकरेणूए ।
दो वाला अब्भग्गा नायव्वं नालियाछिद्दं ।।
वृ. 'अहवा' अथवा पुच्छवालौ द्वौ, कस्याः ? - 'गयकरेणूए 'त्ति गजकलभिकायाः, किंभूताया ? - द्विवर्षजातायाः किंभूतौ वालौ ? -अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
,