________________
मू० ७१
१६५
चतुर्भिः प्रस्थैराढकः ५ षट्याऽऽ ढकैर्जघन्यकुम्भः ६ अशीत्याऽऽ ढकैर्मध्यमकुम्भः ७ आढकशतेनोत्कृष्टः कुम्भः ८, अष्टभिराढकशतैर्वाहो भवति ९, अनेन वाहप्रमाणेन सार्धद्वाविंशतिं तन्दुलवाहान् भुनक्ति वर्षशतेनेति ।
पू. (७२)
'चत्तारि य कोडिसया सट्टिं चेव य हवंति कोडीओ। असीइं च तंदुल सयसहस्सा हवंतित्तिमक्खायं ४६०८०००००० ॥ यू. (७३) तं एवं अद्धतेवीसं तंदुलबाहे भुंजतो अद्धछट्टे मुग्गकुंभे भुंजइ, अद्धछट्टे मुग्गकुंभे भुंजतो चउवीसं नेहाढगसयाइं भुंजइ, चउवीसं नेहाढगसयाई भुंजंतो छत्तीसं लवणपलसहस्साई भुंजइ ।
छत्तीसं लवणपलसहस्साई भुंजतो छप्पडगसाडगसयाइं नियंसेइ दोमासिएण परियट्टएणं मासिएण वा परियट्टेणं बारस पडसाडगसयाई नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सव्वं गणियं तुलियं भवियं नेहलवणभोयणच्छायणंपि ॥ एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सत्थि तस्स गुणिजइ जस्स नत्थि तस्स किं गणिज्जइ ॥
वृ. तांश्च वाहप्रमाणतन्दुलान् गणयित्वा - सङ्ख्यां कृत्वा निर्दिष्टाः - कथिताः, यथा - चत्वारि कोटिशतानि षष्टिश्चैव कोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं कथितं १, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुलसहस्राणि भवन्ति, प्रस्थद्वेयनाष्टाविंशतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विर्भोजनेन उक्तप्रमाणान् तन्दुलान् भुक्ते इति, कतं अष्टाविंशतिसहस्राधिकलक्षं ? वर्षशतस्य षट्त्रिंशद्दिनसहनमानत्वात् षट्त्रिंशत्सहस्रैर्गुण्यन्ते ४६०८ शून्यानि पञ्च भवन्ति, चत्वारि कोटिशतानि षष्टि भुंक्ते सार्धपञ्चं मुद्गकुंभान् भुञ्जन् चतुर्विंशतिं स्नेहाढकशतानि भुंक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जन् षट्त्रिंशल्लवणपल सहस्राणि भुनक्ति, षट्त्रिंशल्लवणपलसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'नियंसेइ'त्ति परिदधाति, द्वाभ्यां मासाभ्यां 'परियहणं' ति परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्त्तनेन द्वादशदृशाटकशतानि 'नियंसेइ' त्ति परिदधाति
'एवामेवे 'ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना भवितमसतिप्रसृत्यादिना प्रमाणेन तत् किमित्याह ? -स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं द्विधा भणितं महर्षिभि, जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते ? न किमपीति भू. (७४) ववहारगणियदि सुहुमं निच्छयगयं मुणेयव्वं ।
यस्य
जइ एवं नवि एवं विसमा गणणा मुणेयव्वा ॥
बृ. 'बवहार' गाथा, व्यवहारगमितं एतद् दृष्टं स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्मं - सूक्ष्मगणितं निश्चियगतं ज्ञातव्यं, यद्येतन्निश्चयगतं भवति तदैतद् व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥
पू. (७५)
कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु ।
समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥
वृ. अथ पूर्वोक्तं समयादि स्वरूपमाह - 'कालो' यः कालः परमनिरुद्धः - अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकर्त्तुमशक्यस्तमेव कालं समयं जानीहि त्वं चशब्दादसङ्ख्य
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org