________________
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ७१
ततः - अभिवादनानन्तरं 'न' मिति वाक्यालङ्कारे तं पुरुषं स्वपुत्रलक्षणं मातापितरौ एवं वदेतां - कथयतां इत्यर्थः- हे पुत्र ! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदा स जीवति नान्यथेति, तदपिच आयुः 'आई'ति अलङ्कारे तस्य वर्षशतायुः पुरुषस्य न बहुकं - वर्षशताधिकं भवति, कस्मात् ?
-
यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात्, तत्र युगंचन्द्रादिवर्षपञ्चात्मकमिति १ विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ द्वे अयनशते जीवञ्जीवः षड् ऋतुशतानि जीवति, तत्रर्तुमासद्वयात्मकः ३ षड् ऋतुशतानि जीवन् जन्तुर्द्वादश मासशतानि जीवति द्वादश मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानि जीवति २४०० चतुर्विंशतिपक्षशतानि जीवन् षट्त्रिंशदहोरात्रसहस्राणि जीवति सत्त्वः ३६०००, ६ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान् दश मुहूर्त्तलक्षाण्यशीतिमुहूर्तसहस्राणि १०८०००० (च) जीवति ७ दशलक्षमुहूर्त्ताण्यशीतिमुहूर्त्तसहस्राणि (च) जीवन् देहधारी चत्वार्युच्छ्वासकोटिशतानि सप्तकोटी: अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च जीवति देहभृत् ४०७८८४००००, ८ चत्वार्युच्छ्वासकोटिशतानियावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन् सार्धद्वाविंशतिं तन्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति ।
कथम् ? - हे आयुष्मन् ! - हे सिद्धार्थनन्दन ! सार्धद्वाविंशतितन्दुलवाहान् मुनक्ति संसारीति हे गौतम! दुर्बलिया स्त्रिया खण्डितानां बलवत्या रामया छटितानां सूर्पादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डानां सम्पूर्णावयवानामस्फुटितानां - राजिरहिताना 'फलगसरियाणं' ति फलकविनीतानां कर्करादिकर्षणेनैकैकबीजानां वीननार्थं पृथक् पृथक्कतानामित्यर्थः, एवंविधानां सार्धद्वादशपलानां तन्दुलानां प्रस्थको भवति, 'णं' वाक्यालङ्कारे, पलमानं यथा- पञ्चभिर्गुआभिर्माषः षोडशमाषैः कर्षः अशीतिगुआप्रमाणइत्यर्थः स यदिकनकस्थ तदा सुवर्णसंज्ञः नान्यस्य रजतादेरिति, चतुर्भिः कर्षैः पलमिति विंशत्धिकशतत्रयगुआप्रमाणमित्यर्थः । ३२०, सोऽपि च प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कल्लं' ति श्वः प्रातः काल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय' मिति सन्ध्यायां प्रस्थो भोजनायेति २ ।
१६४
एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह- 'चउसट्ठि०' चतुःषष्टितन्दुल साहस्रिको मागधः प्रस्थो भवत्येकः, एकः कवलः कतिभि तन्दुलैः स्यादित्याह - 'बिसाहस्सिएप कवलेणं ति द्विसाहस्रिकेण तन्दुलेन कवलो भवति, तत्र गुञ्जः कति भवन्ति ?, यथा- एकविंशत्यधि कशतप्रमाणाः किञ्चिन्यूना एका गुआ चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारो भवति १ स्त्रिया अष्टाविंशतिकवलरूप आहारः २ पण्डकस्य नपुंसकस्य चतुर्विंशतिक लरूप आहारः ३ ‘एवामेव’त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनक एतत्पूर्वोक्तं मानं भवति ॥
अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमा एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च भुनक्तीत्याहअसई उपसई' इत्यादि, धान्यभृतोऽवाङ्मुखीकृतोहस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृति द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २चतसृभिः सेतिकाभि कुडवः ३ चतुर्भिः कुडवैः प्रस्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org