________________
मू०७१
आढगसयाणि बाहो, एएणं बाहप्पमाणेणं अद्धतेवीसं तंदुलबाहे मुंजइ ।। (ते य गणियनिद्दिद्वा)
वृ.'आउसो! सेजहा' ०हेआयुष्मन्! सयथानामको-यप्रकारनामा देवदत्तादिनामेत्यर्थः, अथवा 'से' इति सः यथेति दृष्टान्तार्थः नामेति सम्भावनायां ए इति वाक्यालङ्कारे कश्चित् पुरुषः स्नातः-कृतस्नानः स्नानानन्तरं कृतं-निष्पादितं बलिकर्म-स्वगृहदेवतानां पूजा येन सः कृतबलिका, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तार्थ-दुःस्वप्नादिविधातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतदूर्वाङ्गुरादीनि, शिरसि-उत्तमाङ्गे स्नातः-कृतस्नानः, पूर्वं देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडे'त्ति कृता माला-पुष्पमाला येन स कृतमालः प्राकृतत्वात् 'मालकडे'त्ति, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहतं-मलमूषकादिभिरनुपहतं प्रत्यग्रमित्यर्थ सुमहायँ-बहुमूल्यं वस्त्र परिहितं येन स तथा, चन्दनेन श्रीखण्डेनोत्कीर्णं-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्टु गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे माला-पुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुडमादिविलेपनं यस्य स तथा ।
कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽर्धहारो-नवसरिकः त्रिसरकं-प्रतीतमेव यस्य स तथा, प्रालंबो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण कठ्याभरणविशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रैवेयकाङ्गुलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरलानां कटकत्रुटिकैःहस्तबाह्याभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भिती मुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलाभ्यां-कर्णाभरणाम्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृतंआच्छादितं तेनैव सुष्टु कृतं रतिदं च वक्षः-उरो यस्यासी हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुष्टु कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा ।
-मुद्रिकाः-अङ्गुल्याभरणानि तामि पिङ्गलाः-कपिला अङ्गुलयो यस्य स तथा, नानामणिकनकरलैर्विमलानि-विगतमलानि महार्हाणि-महा_णि निपुणेन शिल्पिना ‘उविय'त्ति परिकर्मितानि मिसिमिसिंतत्ति दीप्यमानानियानि विरचितानि-निर्वृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानिअन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हियदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाअसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन्यानिकटकानि परिधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृ तोदलादिभिर्विभूषितश्चफलादिभिः एवमसावपिमुकुटादिभिरलङ्कृतो विभूषितश्च भवति वस्त्रादिभिरिति, शुचिपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरौ-- मातापितरावभिवादयते--पादयोः प्रणिपातं करोतीत्यर्थ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org