________________
मू०६४
१५७ मध्यकेशाः केशभूमि-मस्तकत्वग् येषां ते हुतवहनितिधौततप्ततपनीयकेशान्तकेशभूमयः, शाल्मली-वृक्षविशेषः सचप्रतीत एव तस्यबोडं-फलंतद्वत्छोटिताअपिघनानिचिता-अतिशयेन निचिताः शाल्मलीबोण्डधननिचितच्छोटिताः,तेहि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतदविशेषणोपादानं, तथा मृदवः-अकर्कशाः विशदा-निर्मलाः सूक्ष्माः-लक्ष्णाः लक्षणा-- लक्षणवन्तःप्रशस्ताः-प्रशंसाऽऽस्पदीभूताः सुगन्धयः-परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको-रत्नविशेषः भृङ्गः-चतुरिन्द्रियपक्षिविशेषः नीलो-मरकतमणि कज्जलंप्रतीतं प्रहष्यःप्रमुदितो यो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रबष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्णइति प्रहष्टग्रहणंतद्वत् स्निग्धाः-कालकान्तयः भुजमोचकभृङ्गनीलकज्जलप्रष्टभ्रमरगणस्निग्धाः तथा निकुरम्बाः-निकुरम्बीभूताः सन्तः निचिताः।।
अविकीर्णा कुञ्चिताः-ईषतकुटिलाः प्रदक्षिणावर्ताश्च मूर्धनि शिरोजा:-केशा येषां ते शाल्मलीबोण्डघननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धिसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमगणस्निग्ध निरम्बनिचितप्रदक्षिणावर्तमूर्धाशिरोजसः, लक्षणानिस्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि गुणाः-क्षान्त्यादयस्तैरुपपेता-युक्ताः लक्षणव्यञ्जन गुणोपपेताः, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि-जन्मदोषरहितानि सर्वाण्यङ्गानि-- अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं-शरीरं येषां ते तथा, तत्र मान-जलद्रोणप्रमाणता, सा चैवं-जलभृकुम्भे प्रभातव्ये पुरुषे उपवेशिते यजलं-तोयं निर्गच्छति तद् यदि द्रोणमानं भवति तदा सपुरुषोमानोपपन्न इत्युच्यते, तत्र २५६पलप्रमाणंद्रोणमानमिति, उन्मानं-तुलाऽऽरोपितस्यार्द्धभारप्रमाणता, भारमानं यथा । ॥१॥ षट्सर्षपैर्यवस्त्वेको, गुजैका च यवैस्त्रीभिः ।
गुञ्जात्रयेण वल्लःस्यात्, गधाणे ते च षोडश ।। ॥२॥
पलञ्च दश गद्याणैत्वेषां सार्द्धशतैर्मणं।
मणैर्दशभिरेका च, घटिका कथिता बुधैः ।। घटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः" इति, प्रमाणं पुनः आत्माङ्गुलेन अष्टोत्तरशताङ्गुलोच्छ्रयता, शशिवत् सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गारं-शृङ्गाररूपंचारु-प्रधानं रूपं-वेषो येषां ते तथा, 'प्रासादीयाः'प्रासादायमनःप्रसत्तये हितास्तत्कारित्वात् प्रासादीयाः-मनःप्रह्लत्तिकारिण इति भावः १ दर्शनीयाःदर्शनयोग्याः यान्पश्यतश्चक्षुषीन श्रमंगच्छत इत्यर्थः २ अभि-सर्वेषां द्रष्टणांमनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपाः अत्यन्तकमनीया इति भावः ३ अथ एव प्रतिरूपाः प्रति विशिष्टं असाधारणं रूपं येषां ते प्रातरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूपाः ।
_ तेमनुष्याः ‘णं' वाक्यालङ्कारे ओघः-प्रवाहः तद्वत्स्वरोयेषांतेओघस्वराः, मेधस्येवातिदीर्घ स्वरोयेषां ते मेघस्वराः,हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौंचस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः,नन्दि-द्वादशतूर्यसङ्घातस्तद्वत् स्वरों येषां ते नन्दिस्वराः, नन्द्या इव घोषो-नादो येषां ते नन्दिघोषाः, सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते सिंहस्वराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org