SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १५८ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ६४ सिंहघोषाः मञ्ज-प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जु घोषो येषां ते मञ्जुघोषाः, एतदेव पदद्वयेन व्याचष्टे-सुस्वराः सुसवरघोषाः, अनुलोब:-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः । कङ्कः-प्रक्षिविशेषः तस्येव ग्रहणि-गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव-पक्षिविशेषस्य परिणामः-आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्नि पाषाणलवानपिजरयतीति श्रुति, एवं तेषामपि अत्यर्गलाहारग्रहणेऽपि न जातुचिदप्यजीर्णदोषो भवतीति, शकुनेरिव-पक्षिणइवपुरीषोत्सर्गेनिर्लेपतया 'फोर्स'तिफोसः-अपानदेशः 'फुस उत्सर्गे' फुसन्ति-पुरीषमुत्सृजन्तिअनेनेति व्युत्पत्तेः, तथा पृष्ठं-प्रतीतं अन्तरे च-पृष्ठोदरयोरनतराले पावित्यर्थ ऊरू-जो चेति द्वन्द्वस्ते परिणता-विशिष्टपरिणामवन्तो येषां ते शकुनिष्फोसपृष्ठान्तरोरुपरिणताः, पद्म-कमलं उत्पलं-नीलोत्पलं यद्वा पञ-पद्मकाभिधान गन्धद्रव्यं उत्पलं च-उत्पलकुष्ठं तयोः गन्धेन-सौरभेण सद्दशः-समो यो निश्वासस्तेन सुरभिसुगन्धि वदनं-मुर्खयेषांते पद्मोत्पलगन्धसद्दशनिश्वाससुरभिवदनाः छवी ति छविमन्तः उद्दीप्तवर्णया सुकुमालया च त्वचा युक्ता इति भावः। निरातङ्का-नीरोगा इत्यर्थः उत्तमा–उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा-कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरुपमा--उपमारहिता तनुः-शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-‘जल्लमल'० याति च लगतिचेति जल्लः पृषोदरादित्वानिष्पत्ति स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्गं च-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदः रजश्च-रेणुः दोषः-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं चमूत्रविष्ठाधुपलेपरहितं शरीरं येषां तेजल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रेच वर्जितं निरुपलेपं च-मूत्रविष्ठाधुपलेपरहितं शरीरं येषां ते जल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रेचनिरुपलेपशब्दस्य परनिपतःप्राकृतत्वात्,छायया शरीरप्रभया उद्योतितमङ्ग-शरीरं अंगं च–प्रत्यङ्गं येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराचसंहननाः, समचतुरन च तत् संस्थानंच समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरनसंस्थानसंस्थिताः, अनयोरग्रे व्याख्यां करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुञ्चत्वेन प्रज्ञप्ता इति, धनुःस्वरूपं जम्बूद्वीपप्रज्ञप्तौ यथा अनंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू निष्फजति, तत्य नो सत्थं संकामइ, अनंताणं वावहारियपरमाणूणं समुदयसमिइसमागमेणं वावहारिए परमाणू निफजति, तत्थ णो सत्थं संकामइ, अनंताणं वावहारियपरमाणूणं समुदयसमिइसमागमेणं सा एगा उसण्हसण्हियाति वा अट्ठ उसण्हसण्हियाउ सा एगा सण्हसण्हिया अट्ठ सण्हसण्हिया सा एगा उद्धरेणूअट्ठ उद्धरेणू सा एगा तसरेणूअट्ठतसरेणूसा एगारहरेणूअट्टरहरेणूंएगे देवकुरुउत्तरकुराणंमणुयाणंवालग्गेअठ्ठदेवकुरुउत्तरकुरुवागासे एगेहरिवासरम्मगवासाणं मणुयाणंवालग्गे, एवं रम्मयहेरण्णहेमवएरण्णवयाणं मणुस्साणं पुव्वविदेहअवरविदेहाणं मणुस्साणं, अट्ठ पुञ्चविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूया अट्ठजूआओ से एगे जवमझे अट्ठ जवमज्झे से एगे अंगुले एतेणं अंगुलपमाणेणं छ अंगुलाई पाओ बारस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy