SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ मू०४७ १४९ मू. (७) तइयं च दसंपत्तो, पंचकामगुणे नरो। __समत्थो भुंजिउं भोए, जइ से अस्थि घरे धुवा।। वृ. 'तइयंच' तृतीयांदशां प्राप्तः पञ्चकामगुणे-शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीतिसत्तारूपतया वर्तते गृहे-स्वावासे 'धुवे'ति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति शेषः । मू. (४८) चउत्थी उ बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ भवे निरुवद्दयो । वृ.'चउ०' चतुर्थी बलानाम्नी दशा वर्तते यांबलानाम्नी दशामाश्रितो नरः समर्थो भवति बल-स्ववीर्यं द्रष्टुं (दर्शयितु) फलिहमल्लवत्, यदि भवेत्निरुपद्रवो-रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति । मू. (४९) पंचमी उदसं पत्तो, आणुपुव्वीए जो नरो। ___समत्थोऽत्थं विचिंतेडे, कुटुंबं चाभिगच्छइ । वृ. 'पंचमी उ’ पञ्चमी दशां प्राप्तः आनुपूा-परिपाट्या यो नरः स समर्थो भवति अर्थ विचिन्तयितुं-द्रव्यचिन्तां कर्तुच पुनः कुटुम्बंप्रति अभिगच्छति-कुटुंबचिन्तायां प्रवर्तते इत्यर्थः छट्ठीओ हायणी नामा, जं नरो दसमस्सिओ। विरज्जइ उ कामेसुं, इंदिएसु य हायइ ।। वृ. 'छट्ठी उ' षष्ठी हापनीनाम्नी दशा वर्तते, यां हापनी दशां नर आश्रितः 'विरज्जइत्ति प्रवाहेण विरक्तो भवति, केभ्यः ?-काम्यंत इति कामाः-कन्दभिलाषास्तेभ्यः इन्द्रियेषुश्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते-हानि गच्छतीत्यर्थः ॥ मू. (५१) सत्तमी य पवंचा ओ, जं नरो दसमस्सिओ। निच्छुमइ चिक्कणं खेलं, खासई यखणे खणे॥ वृ. 'सत्तमी०' सप्तमी प्रपञ्चा दशा यां दशां आश्रितः 'निच्छुभइ'त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं-पिच्छिलं चेपकतुल्यमित्यर्थ 'खेल' श्लेष्माणं च पुनः क्षणं २-वारं २ 'खाइ'त्ति-खासितं करोतीत्यर्थः । मू. (५२) संकुइयवलीचम्मो, संपत्तो अट्ठमीदसं। नारीणं च अणिट्ठो य, जराए परिणामिओ। वृ. संकुइ०' अष्टमी दशांप्राप्तोजीवः सङ्कुचितवलिचर्मा भवति, चपुनः जरया परिणमितोव्याप्तः स्यात्, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति मू. (५३) नवमी मुम्मुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संते, जीवो वसइअकामओ ।। वृ. नवमी मुन्मुखी नाम्नी वर्तते, यांमुन्मुखीं दशां नरः आश्रितः 'जराधरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको-विषयादिवाञ्छारहितो वसति।। मू. (५४) हीनभिन्नसरो दीनो, विवरीओ विचित्तओ। दुब्बलो दुखिओ सुयई, संपत्तो दसमी दसं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy