SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १५० तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ५४ वृ. 'हीण' हीनस्वरः-लघुध्वनि भिन्नस्वरः-स्वभावस्वरादन्यस्वरः दीनः-दीनत्वं गतः विपरीतः-पूर्वावस्थातः विचित्तः विचित्रोवा-नानास्वरूपः दुर्बलः-कृशाङ्गःदुःखितो-रोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे वा संप्राप्तः। कां? -दशमी दशामिति ॥ यस्यां यद् भवति तदाहमू. (५५) दसगस्स उवकखेवो वीसइवरिसो उ गिण्हई विजं । भोगा य तीसगस्स य चत्तलीसस्स विनाणं ।। घृ. 'दसग०' दशकस्य-दशवर्षप्रमाणस्यजीवस्य उवक्खेवो त्ति वालोत्पाटनं मुण्डनमिति लोकोक्ति, उपलक्षणत्वादन्यदपिप्रथमावस्थाभवो महोत्सवविशेषो ज्ञेय इति १,विंशतिवर्षकोद्वितीयावस्थावर्ती विद्यां गृह्णातीति २, त्रिंशतकस्य भोगा भवन्ति ३ चत्वारिंशत्कस्य विज्ञानं भवति।। मू. (५६) पन्नासगस्स चक्खू हायइ सट्टिक्रूयस्स बाहुबलं। भोगय सत्तरिस्स य असीइगस्सा य विनाणं ॥ वृ. 'पन्ना०' पञ्चाशत्क्य जीवस्य चक्खु'त्ति चक्षुर्बलं हीयते ५, षष्टिकस्य बाहुबलं हीयते ६, पस्ततिकस्य भोगा हीयन्ते ७, अशीतिकस्य विज्ञानं हीयते ८॥ मू. (५७) नउई नमइ सरीरं वाससए जीवियं चयइ। कित्तिओऽत्य सुहो भागो दुहो भागो य कित्तिओ। वृ. 'नउइ०' नवतिकस्यशरीरं नमति-वक्रं भवतीत्यर्थ ९, वर्षशतेऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति, यद्वा अत्र 'कित्तिओ'त्ति कियान् सुखभागो वर्तते कियान् दुःखभागो वर्तते॥ मू. (५८) जो वाससयं जीवइष सुही भोगे पभुंजइ । तस्सावि सेविउंसेओ, धम्मो य जिनदेसिओ। वृ.अथशतवर्षायुष्कस्य जीवस्यान्यस्यापि उपदेशंददातीति जोवास०'यो जीवो वर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुंक्ते तस्यापि जीवस्य सेवितुं-सदा कर्तु श्रेयो मङ्गलं धर्मो दुर्गतिपतज्जवाधारः जिनेशितः-केवलिना भाषितः ।। मू. (५९) किं पुण सपञ्चवाए, जो नरो निचदुखिओ। सुद्दढयरं तेण कायब्बो, धम्मो य जिनदेसिओ ।। दृ. 'किं पुण०' किं पुनः सप्रत्यवाये-सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदु-खितः-सदा दुःखाकुलोभवेत् ?, तेनदुःखितजीवेन जिनदर्शितोधर्मसुष्ठुतरं-विशेषतः कर्तव्यो नन्दिषेणपूर्वभवब्राह्मणजीववदिति ॥ मू. (६०) नंदमाणो चरे धम्म, वरं मे लट्ठतरं भवे । अनंदमाणोऽवि चरे, मा मे पावतरं भवे ॥ वृ. 'नंदमा० 'नन्दमानः- सौख्यं मुञानो धर्मं जिनोक्तं चरेत्- कुर्यादित्यर्थः, किंभूतं धर्मं?-वरं-श्रेष्ठं शिप्रापकत्वात्, कया भावनया धर्मं कुर्यादित्याह-मे-ममअत्रभवे परभवेच 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि-अनन्दन्नपि सौख्यमभुआनोऽपि धर्मं कुर्यात्, कया भावनयेत्याह-मे-ममपापतरंमा भवतु-एकतावदहपापफलंभुंजेपुनर्धर्माकरण मा भवतु मेऽतिपापफलमिति भावनयेति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy