________________
१४८
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ४२ निययं विगणिजंतं सोयमयं केरिसं तस्स ।। वृ. 'एया०' एतादृशे शरीरे कलमलभृते-उदरस्थजलबटकदमादिपूर्णे अमेध्यसम्भूतेविष्ठाकीर्णोदरसम्भूते 'निययं विगणिजंत' मिति पदद्वये 'सप्तम्या द्वितीये' ति सप्तम्यर्थे द्वितीया, निजके-आत्मीये 'विगणिज्जत'मिति आत्मपरेषांजुगुप्सायोग्ये शौचमतं पवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति, यद्वा शौचेन-वस्त्रचन्दनाभरणादिना मदो-गर्यो यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीदृशंमम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गीकारकरणं यथा हा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति।
अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरुप्यन्तेमू. (४३) आउसो !एवं जायस्स जंतुस्स कमेण दस दसा एवमाहिऑति तंजहा
वृ. 'आउसो ए०' हे आयुष्मन्! एवम्-उक्तप्रकारेण जातस्य-उत्पन्नस्य जन्तोः-जीवस्य क्रमेण-अनुक्रमेणदश दशा-दशावस्थाः, दशवर्षप्रमाणाप्रथमादशा-अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं-वक्ष्यमाणप्रकारेण 'आहिज्जंतीति आख्या. यन्ते कथ्यन्ते, तद्यथामू. (४)बाला १ किड्डा २ मंदा ३ बला य ४ पण्णा य ५ हायणि ६ पवंचा ७/
गब्भारा ८ मुम्मुही९ सायणीय दसमा य १० कालजाणंति बालया।।
वृ. 'बाला १ किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा-वाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात्दशा प्रज्ञा ५, पाहयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति हापनी ६, प्रपञ्चयति-विस्तारयति खेलकासादि इति प्रपञ्चा ७, प्राग्भारं-ईषदवनतमुच्यते तदिव गात्रं यस्यां सा प्रागभारा ८, मोचनं-मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनंतं प्रतिमुखं-अभिमुख्यं यस्यां सा मुनमुखी ९, स्वापयति-निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति। मू.(४५) जायमित्तस्स जंतुस्स जासा पढमिया दसा।
न तत्थसुहं दुक्खं वा नहु जाणंति बालया॥ वृ.अथ सूत्रेणैव दश दशादर्शनन्नाह–'जायमि०' श्लोकः, जातमात्रस्य जन्तोः-जीवस्य या सा प्रथमिका दशा-दशवर्षप्रमणावस्था 'तत्य'त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखंदा नेति-नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः-जातिस्मरणादिज्ञानविकला इति। मू. (४६) बीईयं च दसंपत्तो, नाणाकोलाहिं कीडइ।
न य से कामभोगेसु, तिव्वा उप्पजई रई। वृ. 'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभि क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्तिनोजीवस्यकामौच-शब्दरूपे भोगाश्च-गन्धरसस्पर्शा कामभोगास्तेषु तीव्रा-प्रबला रति-मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org