SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १४४ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् २५ मू. (२५) जीवे णं भंते ! गब्भगए समाणे देवलोगेसु उववजिजा?, गो० ! अत्थेगइए उव० अत्येग० नो उव०, से केणद्वेणं भंते ! एवं वुचइ-अत्यंगइए उ० अत्यंगइए नो उ०?, गोयमा! जेणंजीवे गब्भगए समाणे सन्नी पंचिंदिए सव्वाहि पजत्तीहिं पजत्तए वेउब्धियलद्धीए ओहिनाणलद्धीएतहारूवस्स समणस्सवामाहणस्स वा अंतिए एगमवि आयरियंधम्मियं सुवयण सुच्चा निसम्म तओ से भवइ तिव्वसंवेगसंजायसद्धे तिब्वधम्मानुरायरते। से णं जीवे धम्मकामए १ पुण्णकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए ३ मुक्खकंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए४ तचित्ते १ तम्मणे २ तल्लेसे ३ तदज्झवसिए४ तत्तिव्वज्झवसाणे ५ तदप्पिय. करणे ६ तयहोवउत्ते ७ सब्मावणाभाविए ८ एयंसिणं(चे) अंतरंसि कालं करिजा देवलोएसु उववज्जिजा,से एएणं अटेणंगो० एवं वुबइअत्धेगइए उववजिजा अत्थेगइए नो उववजिजा वृ, 'जीवेणंभंते! गब्बगए देव०' जीवो हेभदन्त! गर्भगतः सन्मृत्वेति शेषः देवलोकेषु उत्पद्यते ?, हे गौतम ! अस्ति एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते?, हे गौतम ! यो जीवो गर्भगतः सन् संज्ञीपञ्चेन्द्रियः सर्वाभि पर्याप्तिभि पर्याप्तः, मासद्वयोपरिवर्तीत्यवधार्य मासद्वयमध्यवर्तीतु स्वर्गेनयातीति,पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य-तथाविधस्य उचितस्येत्यर्थः श्रमणस्य-साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रदर्शनार्थः 'माहणस्स'तिमा हनर इत्येवमादिशतिस्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाद माहनः-परमगीतार्थस्तस्यवा अंतिए'त्ति समीपेएकमप्यास्तामनेकंआर्य-आराद्यातं पापकर्मभ्य इत्यार्थ अत एव धार्मिकमित सुवचनं-शोभनवाक्यं श्रुत्वा-आकर्ण्य निशम्य-मनसा अवधार्य 'तउत्ति तदनन्तरमेव । सः-गर्भस्थजन्तुः भवति-जायते 'तिव्वसं०' तीव्रसंवेगेन-भृशंदुःखलक्षाकुलभवभयेन साता सम्यगुत्पन्ना श्रद्धा श्रद्धानं धर्मादिषु यस्य स तीव्रसंवेगसआतश्रद्धः 'तिव्वध०' तीब्रो यो धर्मानुरागः-धर्मबहुमानस्तेन रक्त इव-रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्यः वैराग्यवानजीवः 'णं' वाक्यालङ्कारे 'धम्मकामए'त्तिधर्मे-श्रुतचारित्रलक्षणे कामो-वाञ्छामात्र यस्यस धर्मकामकः १ पुण्ये-तत्फलभूतेशुभकमणिकामोयस्य सपुण्यकामकः स्थानाङ्गेतु अन्न १पानरवस्त्र३ऽऽलय४शयना५ऽऽसनक्ष्मनोश्वचन-काय९लक्षणंनवविधं पुण्यंप्रतिपादित जगदीश्वरेण भगवतेति २, स्वर्गे-देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्षे-शिवे अनन्तानन्तसुखमयेकामो यस्यसमोक्षकामकः ४, एवमग्रेऽपि, नवरंकाडा-गृद्धिरासक्तिरित्यर्य: धर्मे काङ्क्षा साता अस्येति धर्मकाङ्क्षितः १ पुण्यकाङ्क्षितः २ स्वर्गकाशितः ३ मोक्षकाङ्कितः ४ पिपासेवपिपासा प्राप्तेऽपि धर्मेऽतृप्ति धर्मपिपासासा साताअस्येति धर्मपिपासितः १ पुष्पिपासितः २ स्वर्गपिपासितः ३ मोक्षपिपासितः ४, 'तच्चित्ते' इत्यादिअष्टविशेषानि धर्मपुण्यस्वर्गमोक्षे शुभानिवाच्यानि, तच्चित्तः १ तन्मनाः २ तल्लेश्यः ३ तदध्यवसितः ४ तत्तीद्राध्यवसायः ५ तदर्थोपयुक्तः६ तदप्तिकरणः७ तदभावनाभावितः ८, एयंसिणं'ति एतस्मिन्नन्तरेधर्मध्यानावसरे कालं-मरणं 'करिजत्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अथैतेनार्थेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy