________________
मू०२४
१४३
जीवः 'ण' इतिवाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यतेयस्य स संज्ञीपञ्चे न्द्रियाणिश्रवण १ ध्राण-२ रसन३ चक्षु ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिरा हारशरीरेन्द्रियोच्छ्वासभाषामनोलक्षणाभिः षड्भिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवर्तीत्युनुक्तमपि ज्ञेयं। .
___ यतोमासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपिन यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोचे'तिश्रुत्वा 'निसम्मत्ति निशम्य-मनसा अवधार्य 'पएसे निच्छुभइत्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहि क्षिपति-निष्काशयति निष्काश्य विष्कम्भबाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्घयेययोजनप्रमाणंजीवप्रदेशदण्डं निसृजति, वैक्रियसमुद्घातेन 'समोहणइत्ति समवहन्तिसमवहतो भवति तथाविधपुद्गलग्रहणार्थः,समवहत्यचत्वारिगजाश्वरथपदातिलक्षणानिअङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनी सिनन्ति सेनां कटकमित्यर्थ ‘सन्नाहेइत्ति सज्जां करोतीत्यर्थः सञ्जां कृत्वा परानीकेन साधु संग्राम संग्रामयति-युद्धं करोतीत्यर्थः। ___'सेणं जीवे'त्तिणं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं नृपत्वं २ भोगा:गन्धरसस्पर्शा ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'ति का गृद्धिरासक्तिरित्यर्थः अर्थे-द्रव्ये काङ्क्षा साताअस्येतिअर्थकाङ्क्षितः१एवमन्यानिराज्यकाङ्कितः२ भोगकाशितः३कामकाशितः४। - 'अत्यपिवासिए तिपिपासेवपिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः अर्थे अर्थस्य वापिपासा साता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४
'तचित्ते'त्ति तत्र-अर्थराज्यभोगकामे चित्तं सामान्योपयोगरूपं यस्यासौ तच्चित्तः १ 'तम्मणे तितत्रैव-अर्थादौ मनः--विशेषोपयोगरूपंयस्यस तन्मनाः २ 'तल्लेसे तितत्रैव-अर्थादौ लेश्या आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदज्झवसिएत्तिइह अध्यवसायः-अध्यवसितं तत्र तचित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ तत्तिबज्झवसाणे तितस्मिन्नेव-अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायिअध्यवसानं प्रयत्नविशेषलक्षणं यस्यसततीव्राध्यवसानः ५'तदट्ठोवउत्ते'त्ति तदर्थंअर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ तदप्पियकरणे'त्ति तस्मिन्नेव–अर्थादौ अर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणिवायेन स तदर्पितकरणः ७ 'तब्भावणाभाविए'त्ति असकृदनादौ संसारे तदभावनया-अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः ८।
'एयंसिति एतस्मिन् 'ण' इतिवाक्यालङ्कारे चेत्-यदि अन्तरंसित्तिसङ्ग्रामकरणावसरे कालं-मरणं कुर्यात्तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्याष्टि नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम! जीवो गर्भगतः सन् नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनौतमो वीरं प्रश्नयतीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org