SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मू०१९ १३९ करोतीत्यर्थः ६। - सप्तमे मासे सप्त निराशतानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाड्यः ९ नवनवतिं रोमकूपशतसहस्राणि निवर्तयति, रोम्णां-तनुरुहाणां कूपाइव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षाइतिकेशश्मश्रुभिर्विना, तत्र केशाः-शिरोजाः श्मश्रूणि-कूर्चकेशाः ९९०००००, केशश्मश्रुभिः सह 'अछुट्टाउ'त्ति सार्धा तिम्रो रोमकूपकोटीः निर्वतयतीति ३५००००००, अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे'त्ति निष्पन्नप्रायो जीवो भवतीति । __ अत्राधिकारे इन्द्रभूति जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथा मू. (२०) जीवस्सणं भंते! गभगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वावंतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा?, नो इणढे समढे, से केणटेणं भंते! एवं वुच्चइ जीवस्स णं गभगयस्स समाणस्स नस्थि उच्चारेइ वा जाव सोणिएइ का? गोयमा! जीवेणं गभगए समाणेज आहारं आहारेइतंचिणाइ सोइंदियत्ताए १ चक्खुरिदियताएरघाणिदियत्ताए ३ जिभिदियत्ताए४ फासिंदियत्ताए ५ अहिअट्टिमिंजकेसमंसुरोमनहत्ताए, से एएणं अटेणं गोयमा! एवं वुच्चइ जीवस्स णं गब्भगयस्स समाणस्स नत्थि उचारेइ वा जाव सोणिएइ वा। वृ. 'जीवस्सणंभंते!' इत्यादि, हे भदन्त! जीवस्य-जन्तोः 'ण' वाक्यालङ्कारे गर्भगतस्यगर्भत्वं प्राप्तस्य 'समाणस्स'त्ति सतः अस्ति-विद्यते वर्त्तत इत्यर्थउच्चारो-विष्ठा 'इ' इति उपप्रदर्शने अलकारे पूरणे वा वेति विकल्पार्थे 'प्रश्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'सिंघाणेति नासिकाश्लेष्म 'वंत' वमनं पित्तं' मायुः शुक्र-वीर्यं शोणितं-रुधिरं 'सुक्के इ वा सोणिए इवा' इति पदद्वयं भगवत्यादिसूत्रेन श्यते आगमज्ञैर्विचार्यमिति, ‘नो इणढे समडे' नो-नैव 'इणडे'त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो भावः समर्थो-बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्, गौतमस्वामी प्राह से केणद्वेणं'ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोच्यते-जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ?, भगवान् प्राह-हे गौतम ! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया १ चक्षुरिन्द्रियतया २ घ्राणेन्द्रियतया ३ जिह्वेन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोतिपुष्टिभावं नयतीत्यर्थः। इन्द्रियाणि द्वैधानि-पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणितुभावेन्द्रियाणि २, पुनर्निर्वृत्युपकरणलक्षणभेदात् द्वैधानि द्रव्येन्द्रियाणि, तत्र निर्वृतिद्धिधा-अन्तो १ बहिश्च २, तत्र अन्तः-श्रोत्रेन्दियस्य अन्तः-मध्ये नेत्रगोचरातीता केवलिद्दष्टा कदम्बकुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षुरिन्द्रियास्यान्तः-मध्ये कवलिगम्या धान्यमसूराकारा देहावयवरूपा काचिन्निवृत्तिरस्तियारूपग्रहणोपकारे वर्तते ३ रसनेन्द्रियस्य अन्तः-मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिन्निवृत्तिरस्ति या गन्धग्रहणोपकारे वर्तते ४ स्पर्शनेन्द्रियस्य अन्तः-मध्ये केवलिदृष्टा देहाकारा काचिन्निवृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्तते ५-१। बहिर्निवृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका श्यते सैव मन्तव्या २, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy