________________
पुष्पिका-उपाङ्गसूत्रम् ३/५ धर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अतएवाह-अंबारामेय' इत्यादि
कल्लंपाउप्पभायाएरयणीएजलंते सूरिए इत्यादि वाच्यम् । “मित्तनाइनियगसंबंधिपरियणं पियआमंतित्ता विउलेणं असनपानखाइमसाइमेणंभोयावित्ता सम्माणित्ता" इति अत्रमित्राणिसुहृदः ज्ञातयः-समानजातयः निजकाः-पितृव्यादयः संबन्धिनः-श्वशुरपुत्रादयः परिजनोदासीदासादि तमामंत्र्यविपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाधुपकरणः । _ 'वानपत्थ'त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थिति वानी प्रस्था येषां ते वानप्रस्थाः अथवा ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा। इति चत्वारो लोकप्रतीताआश्रमाः, एतेषां चतृतीयाश्रमवर्तिनो वानप्रस्थाः, होत्तिय'त्ति अग्निहोतृकाः, पोत्तिय तिवस्त्रधारिणः, कोत्तिया जन्नई सडईघालई हुंबउठादंतुक्खलिया उम्मञ्जगासम्मजगा निमज्जगासंपक्खालगादक्खिणकूलगा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वक्तवासिणो बिलवासिणोजलवासिणोरुक्खमूलिया अंबुभविखणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तायहारापत्ताहारापुप्पाहारा फलाहाराबीयाहारापरिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकविणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं ।
तत्र 'कोत्तिय'त्ति भूमिशायिनः, 'जन्नइत्ति यज्ञयाजिनः, 'सड्इ'त्ति श्राद्धाः ‘घालइत्ति गृहीतभाण्डाः, हुंबउह'त्ति हुंडियकाक्रमणाः, 'दतुक्खलिय'त्तिफलभोजिनः 'उम्मज्जगत्ति उन्मजनमात्रेण ये स्नान्ति ‘सम्मजग'त्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति, निमज्जग'त्ति स्नानार्थं ये निमग्रा एव क्षणं तिष्ठन्ति, 'संपक्खालगा'त्ति मृत्तिकाघर्षणपूर्वकं येऽपंक्षालयन्ति, 'दक्खिणकूलग त्तियैर्गङ्गादक्षिणकूल एव वस्तव्यम्, उत्तरकूलग'त्ति उक्तविपरीताः, 'संखधम'तिशङ्ख मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव,-'हस्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'उदंडग'तति वल्कलवाससः । _ 'बिलवासिणो'त्ति व्यक्तम्, पाठान्तरे 'वेलवासिणो'त्ति समुद्रवेलावासिनः, 'जलवासिणो त्ति ये जलनिष्ण्णा एवासते, शेषाः प्रतीताः नवरं, "जलाभिसेयकढिणगाय त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् ‘जलाभिसेयकढिणगायभूय'त्ति श्यते तत्रजलाभिषेकठिनगात्रभूताः प्राप्ता येते तथा, 'इंगालसोल्लिय'ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लियं' ति कन्दुपक्खमिवेति ।
'दिसाचक्कवालएणंतवोकम्मेणं'तिएकत्र पारणकेपूर्वस्यां दिशियानिफलादीनितान्याहत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वालगवत्थनियत्थे त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवप्सितं येन स वाल्कलवस्त्रनिवसितः ।
'उडए'त्ति उटजः-तापसाश्रमगृहम् । किढिण'त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकं-भारोद्वहनयन्तंर किढिणसांकायिकम् । 'महाराय त्ति लोकपालः । 'पत्थाणे पत्थियंति प्रस्थाने परलोकसाधनमार्गे प्रस्थितं प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International