SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -३ "हेऊइंति हेतूनअन्तर्वर्तिन्यास्तदीयज्ञानसंपदोगमकान्, पसिणाइंतियात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, ‘कारणाइंतिकारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानिप्रत्युत्तरया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि त्तिप्रश्नयिष्ये इति कृत्वा निर्गतः । खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एवमवादीत्-‘जत्ता ते भंते ! जवणिज्जंचते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानसंभवयताऽपभ्राजनार्थं प्रश्नः कृति इति ‘सरिसवय'त्ति एकत्र सध्शवयसः अन्यत्र सर्षपाः-सिद्धार्थकाः, 'मास' त्ति एकत्रमाषोदशार्धगुआमानः सुवर्णादिविषयः अन्यत्रमाषो-धान्यविशेषः उडद इति लोके रूढः, कुलस्थत्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुलस्था-धान्यविशेषः। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति, ‘एगे भवंति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भव' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहितः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (पदित)एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्न तुप्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि-एको हि देवदत्तादि पुरुष एकदैवतत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान्लभते 'तहा अक्खए अव्वए निच्चे अवट्ठिए आये'त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवासविहं सावगधम्म पडिवजित्ता सट्टाणमुवगओ सोमिलमाहणो' 'असाहुदसणेणं' ति असाधवः कुदर्शनिनो भागवततापसादयः तद्दर्शनेन साधूनां चसुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैर्मिथ्यात्वं गतः, तदुक्तम्॥१॥ “मइभेया पुवोगाहसंसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं, साहूणंऽदंसणेणहवा ।" अतो अत्र असाहुदसणेणंइत्युक्तम् । अज्झथिएजाव'त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते यो न बहि प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि वयाइं चिण्णाई व्रतानिनियमास्ते चशौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानी लौकिक www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003355
Book TitleAgam Sutra Satik 21 Pushpika UpangSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages44
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 21, & agam_pushpika
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy