________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/२९ नधनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियभागाभ्यधिकस्तेनाधिकभागपातनार्थं सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुर्विंशत्या २४ भागे हते लब्धं १७४०८५३१८०२४५०६६०११५७६८९३४४००००००००० अयंचैकोनविंशत्या गुणितः समवृत्तधनयोजनपल्यगतो राशिर्भवतीति, सचाङ्कतोयथा ३३३०७५२१०४२४५५५, २५४२१९९५०९१३५००००००००० अयमर्थ-याशैश्चतुर्विंशत्या भागैः समचतुरनघनयोजनप्रमितपल्यगतो रोमराशिर्भवति ताशेरेकोनविंशत्या भागः समवृत्तधनयोजनप्रमितपल्यगतो राशिर्भवति, ननु चतुर्विंशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थं ?
-उच्यते, एकयोजनप्राणवृत्तक्षेत्रस्य करणरीत्यागतं योजनत्रयमेकश्च योजनषड्भागः सवर्णने च जातंएतच्च वृत्तपल्यपरिधिक्षेत्रं, अनेन सह समचतुरनपल्यपरिधिक्षेत्रं चतुर्योजनरूपं गुण्यते, अनयोः समच्छेदे लाघवा) द्वयोरपि छेदापनयने जातं १९-२४ किमुक्तं भवतिसमचतुरस्रपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्या पञ्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषड्भागस्य किञ्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः-'ते नमिति प्राग्वत्, तानिवालाग्राणिन कुथ्येयुः-प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाचनासारतां गच्छेयुरित्यर्थः, अतो न परिविधवंसेरनकतिपयपरिशाटनमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः अर्थवशाद्विभक्तिपरिणाम इति, तानि नाग्निदेहेत् न वायुरपहरेदतीव निचितत्वादग्निपवनावपि तत्र न क्रमेत इत्यर्थ, तानि च न पूतितथा-पूतिभावं कदाचिदागच्छेयुः, न कदाचिदुर्गन्धिता प्राप्नुयुरित्यर्थः, अथ केतिकर्तव्यता ?, तामेवाह-ततस्तेभ्यो वालागरेभ्योऽथवा 'तत' इति तथाविधपल्यभरणानन्तरं वर्षशते २ एकैकं वालाग्रमपहत्य कालो मीयेत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो-वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत् ।
तथा (नीरजाः)-निर्गतरजःकल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोठागारवत, निर्लेपोऽ. त्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेपकोष्ठागारवत्, निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्लप्रमार्जितकोष्ठागारवत्,एकाथिका वा एते शब्दा अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरे श्यमानंचान्यदपि पदमुक्तानुसारतो व्याख्येयं, तदेतत्पल्योपममिति, इदंचपल्यगतवालाग्राणांसद्धयेयैरेववर्षेस्तदपहारसम्भवात्संख्येयवर्षकोटाकोटीमानं बादरपल्योपमं ज्ञेयं, न चानेनात्र वक्ष्यमाणसुषमसुषमादिकालमानदावधिकारः, परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तयेप्ररूपितमिति ज्ञायते, तेन पूर्वोक्तमेकैकवालाग्रमसंख्येयखण्डीकृत्य भृतस्योत्सेधाड्गुलयोजनप्रमाणायामविष्कम्भावगाहस्य पल्यस्य वर्षशते २ एकैकवालाग्रापहारेण सकलवालाग्रखण्डनिर्लेपनाकालरूपमसङ्खयेयवर्षकोटीकोटीप्रमाणं सूक्ष्मपल्योपमं, विचित्राकृतिराचार्यस्येति सूत्रकारेणानुक्तमपि स्वयंज्ञेयं, तेनैवच प्रस्तुतोपयोगः, अन्यथाऽनुयोगद्वारादिभि सह विरोधप्रसङ्गादिति सर्वं सुस्थं।
एवमग्रे सागरोपमेऽपि ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाहमू. (३०) एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिआ।
तं सागरोवमस्स उ एगस्स भवे परीमाणं॥ वृ“एएर्सिपल्लाण मित्यादि, एतेषामनन्तरोदितानांपल्यानामितिपदैकदेशेपदसमुदायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org