________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/२९ परिक्खेवेणं से णं पल्ले एमाहिअबेहियतेहिअउक्कोसेणं सत्तरत्तपढाणं संमढे सन्निचिए भरिए वालग्गकोडीणं । तेणं वालग्गा नो कुत्येज्जा नो परिविद्धंसेज्जा, नो अग्गी डहेजा, नो वाए हरेआ, नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए २ एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिहिए भवइ से तं पलिओवमें।
कृतव्यावहारिकपरमाणुंसिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्नकेवलज्ञानान तुसिद्धाः सिद्धिगताः, तेषां वचनयोगासम्मवादिति, आदि-प्रथमं प्रमाणानां वक्ष्यमाणोल्लक्ष्णश्लक्ष्णिकादीनामिति, एतेन श्रद्धालून्प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणःप्रतिप्रयोगः-अणुपरिमाणं कचिद्विश्रान्तंतरतमशब्दवाच्यत्वात्महत्परिमाणवत्, यत्र चविश्रान्तंस परमाणुः, विपक्षे वस्तुनः स्थूलताऽपिनोपपद्यते, नचदव्यणुकादि नार्थान्तरमिति वाच्यं, सचसिध्यन् परमनिकृष्टो निरंश एव सिध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च, ततः सिद्धः परमाणुः, ननु सिध्यतुसः सूक्ष्मत्वाचन चक्षुरादिगम्यः, परंयदनन्तैः सूक्ष्मैपरमाणुभिरेको व्यावहारिकः परमाणुरारभ्यतेसचक्षुराधगोचरःशस्त्रच्छेदाद्यगोचरश्चेति तन्मन्दं, उच्यते, द्विविधो हिपुद्गलपरिमाणःसूक्ष्मो बादरश्च, तत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्वं शस्त्रच्छेदाद्यविषयत्वमित्यादयो धर्मा भवन्ति, तेन नकाप्यनुपपत्ति, श्रूयते चागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नमःप्रदेशे माति स एव च द्वयोरपि मातीतिसंकोचविकाशकृतो भेदः, श्यतेचलोकेऽपिपिञ्जितरुतपुअलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह
अनन्तानां व्यावहारिकपरमाणूना समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया समुच्चये,एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यं, एते च श्लक्ष्णश्लक्षिणकादयोऽड्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निर्विशेषितमप्युक्तं. "सहसण्हिआइवे'त्यादि, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूवरेण्वपेक्षया त्वष्टभागप्रमाणत्वात् लक्ष्णश्लक्षिणकेत्युच्यते,सवतः परतो वाऊधिस्तिर्यकचलनधर्मोजालप्रविष्टसूर्यप्रभाभिव्यङ्गयोरेणुरूर्ध्वरेणुः त्रस्यति-पौरस्त्यादिवायुप्रेरितोगच्छतियोरेणुः सत्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरुत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भाक्नीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टौ वालाग्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एक यवमध्यं, अष्टौ यवमध्यानि एकमड्गुली
एतेनाड्गुलप्रमाणेनेतिन तुन्यूनाधिकतया, षडड्गुलानि पादः-पदस्य मध्यतलप्रदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्तचतुर्थांशः, द्वादशाङ्गुलानि वितस्ति सुखावबोधार्थमेवमुपन्यासः, लाघवार्ततु द्वौपादौ वितस्तिरितिपर्यवसितोऽर्थः,अन्यथा पादसंज्ञाया नैरर्थक्यापत्ति, एवमग्रेऽपि चतुर्विंशतिरड्गुलानि रलिरिति सामयिकी परिभाषा नामकोशादौ तु 'बद्धमुष्टिहस्तो रनिरिति, अष्टचत्वारिंशदङ्गुलानि कुक्षि, षन्नवतिरड्गुलानिएकोऽक्ष इति वा-शकटावयवविशेषः दण्ड इति वा धनुरितिवायुगमितिवा-बोढस्कन्धकाष्ठमुसलमिति वा नालिकाइतिवा-यष्टिविशेषः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org