________________
वक्षस्कारः - १
मविष्कम्भाभ्यां देवच्छन्दकसमाना उच्चैस्त्वेन तु तदर्द्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषु देवच्छन्दकाधिकारे तथाविधमणिपीठिकाया दर्शनात् यथा सूर्याभविमाने 'तस्स णं सिद्धायतनस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता सोलसजोअणाई आयामविक्खंभेणं अट्ठ जोअणाई उच्चत्तेणं' ति, तथा विजयाराजधान्यामपि 'तस्स णं सिद्धाययनस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिआ पन्नत्ता दो जो अणाई आयामविक्खंभेणं जोअणं बाहल्लेणं सव्वमणिमया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूर्ध्वोच्चत्वेन सर्वात्मना रत्नमयः ।
८१
तत्र देवच्छन्दकेऽष्टशतं - अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणांजिनोत्सेधः - तीर्थकरशरीरोच्छ्रायः, तस्य च प्रमाणं उत्कृष्टतः पञ्चधनुः शतात्मकं जघन्यतः सप्तहस्तात्मकं इह च पञ्चधनुःशतात्मकं गृह्यते, तदेव मात्रा - प्रमाणं यासां तास्तथा तासां, तथा जगत्स्वाभाव्यात्, देवच्छन्दकस्य चतुर्द्दिक्षु प्रत्येकं सप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननु पद्मवरवेदिकादय इव शाश्वतभावधर्मा अपि सहजसिद्धा एव भवन्ति, तेन शाश्वतप्रतिमा इव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति ।
किं प्रतिष्ठापनान्तरविचारेण ?, ततः शाश्वतप्रतिमासु सहजसिद्धमेवाराध्यत्वमिति न किञचिदनुपपन्नमिति, अत्र प्रतिमानां उत्सेधाङ्गुलमानेन पञ्चधनुः शतप्रमाणानां प्रमाणाङ्गुलमानेन पञ्चधनुः शतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न विधेयेति, अत्र प्रतिमावर्णकसूत्रं एवं 'जाव धूवकडुच्छुगा' इति सूत्रेण सूचितं जीवाभिगमाद्युक्तमवसेयं, तच्चेदम्
तासि णं जिन डिमामं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - तवणिज्जमया हत्थतलपायतला अंकामयाई नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ रिट्ठामए मंसू तवणिज्जमईओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुछुआ तवणिज्जमया सिरिवच्छा कणगमईओ बाहाओ कणगामईओ गीवाओ सिलप्पवालमया उड्डा फलिहामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुआ कणगमई नासिगाओ अंतोलोहि अक्खपडिसेगाओ अंकामयाई अच्छीण अंतोलोहिअक्खडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छिपत्ताइं रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टिया वइरामईओ सीसघडीओ तवणिजभईओ केसंतकेसभूमिओ रिट्ठामया उवरिमुद्धया
तासि णं जिन डिमाणं पिट्टओ पत्तेयं २ छत्तधारपडिमा पन्नत्ता, ताओ णं छत्तधारपडिमाओ हिमरययकुंदिंदुप्पगासाइं सकोरंटमल्लदामाई दवलाई आयवत्ताइं सलीलं ओहारेमाणीओ चिह्नंति, तासि णं जिनपडिमाणं उभओपासि पत्तेअं २ दो दो चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइवेरुलियणाणामणिकणगरयणखइ अमहरिह तवणिजुञ्जलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयमयमहिअफेणपुंजसन्निकासाओ सुहुमरययदीहवालाओ धवलाओ चामराओ सलीलं धारेमाणीओ चिट्ठति, तासि णं जिनपडिमाणं पुरओ दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो भूअपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ
13 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org