SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १ /१४ पायवडियाओ पंजलिउडाओसन्निक्खित्ताओ चिह्नंति सव्वरयणामईओ अच्छाओ सण्हा ओलण्हाओ घट्ठाओ मट्ठाओ नीरयाओ निष्पंकाओ जाव पडिरूवाओ । तत्थ णं जिन डिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं वंदनकलसाणं एवं भिंगाराणं आयंसगाणंथालाणं पाईणं सुपइट्ठगाणं मणोगुलिआणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्यचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं" तासां जिनप्रतिमानामयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा - तपनीयमयानि हस्ततलपादतलानि तथा कनकमयाः पादाः तथा कनकमया गल्फाः अङ्कमयाः - अङ्करत्नमया अन्तर्लोहिताख्यरत्नप्रतिसेका नखाः, कनकमय्योजङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः रिष्ठरत्नमय्यो रोमराजयः, तपनीयमयाश्चञ्चुकाःस्तनाग्रभागाः, तपनीयमयाः सवत्साः, तथा कनकमय्यो बाहाः, तथा कनकमय्यो ग्रीवा रिष्ठरत्नमयानि श्मश्रूणि शिलाप्रवालमया-विद्रुममया ओष्ठा स्फटिकमया दन्ताः तपनीयमय्यो जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिका अन्तर्लोहिताक्षरत्नप्रतिसेका अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः रिष्ठरत्नमयान्यक्षिपत्राणिनेत्ररोमाणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमया श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः, केशान्तभूमयः केशभूमयश्च, रिष्ठरत्नमया उपरि मूर्द्धजाः केशाः, ननु केशरहितशीर्षमुखानां भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना । जिनानां कुतः केशकूर्चादिसम्भवः ?, उच्यते, भावजिनानामपि अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्, यदुक्तं श्रीसमवायाङ्गेऽतिशयाधिकरे- “अवट्ठिअकेसमंसुरोमणहे" इति, तथा औपपातिकोपाडे- 'अवट्ठिअसुविभत्तचित्तमंसू' इति, अवस्थितत्वं च देवमा- हास्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थानं न तु सर्वथाऽभावत्वं इत्थमेव शोभातिरेकदर्शनं पुरुषत्वप्रतिपत्तिश्च तेन प्रस्तुते न तव्यतिरूपताव्याघातः, नन्वेवं सति अर्चनकेन किमालम्ब्य तेषां श्रामण्यावस्था भावनीयेति चेत् ?, उच्यते, परिकर्मितरिष्ठमणिमयतथाविधाल्पकेशादिरमणीयमखादिस्वरूपमिति, यत्तु श्रीतपागच्छनायक श्रीदेवेन्द्रसूरिशिष्य श्रीधर्मघोषसूरिपादैर्भाष्यवृत्ती भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यभिदधे तदवर्द्धिष्णुत्वेनाल्पत्वेन चाभावस्य विवक्षणात् श्रामण्यावस्थाया अप्रतिबन्धकत्वाच्चेति न किमप्यनुपपन्नं, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा प्रज्ञप्ता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमाल्यदामानि धवलानि आतपत्राणि - छत्राणि सलीलं धारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानामुभयोः पार्श्वयोः प्रत्येकं द्वे द्वे चामरधारप्रतिमे प्रज्ञप्ते, ताश्च चामरधारप्रतिमाः चन्द्रप्रभः - चन्द्रकान्तो वज्रं - हीरकमणि वैडूर्यं च प्रतीतं तानि शेषाणि च नानामणिरत्नानि खचितानि येषू दण्डेषु ते तथा, एवंरूपा महार्हस्य-महार्घस्य तपनीयस्य सत्का उज्वला विचित्रा दण्डा येषु तानि तथा चिल्लियाओ' इत्यादि प्राग्वत्, नवरं 'चामराओ' त्ति प्राकृतत्वात् स्त्रीत्वं चामराणि सलीलं धारयन्त्यो- वीजयन्त्यो वीजयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रति द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्ड For Private & Personal Use Only www.jainelibrary.org ८२ Jain Education International
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy