________________
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् १/१४ क्रोशाधिकानि ऊर्ध्व गतः, अस्य द्विकेन भागे लब्धाः ६ क्रोशाः क्रोशस्य च पादः, एतावान् मूलव्यासात्शोध्यते, शेषपञ्च योजनानि सपादक्रोशोनानि, इयान्मध्यभागेविष्कम्भः, एवमन्यत्रापि प्रदेशे भाव्यं, इमे चारोहावरोहकरणे शेषेषु वैताब्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राङ्केषु चहरिस्सहादिकूटेषु अष्टयोजनिकेषु च ऋषभकूटेष्ववतारणीये, वाचनान्तरोक्तमानापेक्षया तु ऋषभकूटेषु करणंजगतीवदिति । अस्य च पद्मवरवेदिकादिवर्णनायाह
से ण'मित्यादि व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह-'सिद्धायतन' इत्यादिप्राग्वत्, अथात्र जिनगृहवर्णनायाह-'तस्सण'मित्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रमहदेकं सिद्धानां-शाश्वीनामहप्रतिमानामायतनं-स्थानं चैत्यमित्यर्थः प्रज्ञप्तकोशमायामेनार्द्धक्रोशंविष्कम्भेनदेशोनं क्रोशमूर्दोच्चत्वेन, देशश्चात्रषष्टयधिकपञ्चशतधनूरूप इति, यत उक्तवीरंजयसेहरेत्यादिक्षेत्रविचारस्यवृत्ती-'ताणुवरिचेइहरादहदेवीभवणतुल्लपरिमाणा' इत्यस्या गाथाया व्याख्याने “तेषांवैताढ्यकूटानामुपरिचैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्त्तन्ते, यथा श्रीगृहं क्रोशैकदीर्धं क्रोशार्द्धविस्तारंचत्वारिंशदधिकचतुर्दशशतधनुरुन्च"मिति, तथाअनेकेषुस्तम्भशतेषुसंनिविष्ट, तदाधारकत्वेन स्थितमित्यर्थः,तथास्तम्भेषुउद्गता-संस्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्य कर्मधारयः, ताशी वज्रवेदिका-द्वारशुण्डिकोपरिवज्ररलमयी वेदिकातोरणंचस्तम्भोद्गतसुकृतं यत्रतत्तथा, तथा वराः-प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा सुश्लिष्टं-सम्बद्धं विशिष्टं-प्रधानं लष्ट-मनोज्ञं संस्थितं-संस्थानं येषां ते तथा ततः पदद्वयकर्मधारये ताशाः प्रशस्ताः-प्रशंस्पदीभूता वैडूर्यविमलस्तम्मा यत्र तत्तथा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिरत्नानिखचितानि यत्रसनानामणिरत्नखचितः,निष्ठान्तस्यपरनिपातः मार्यादिदर्शनात्, ताश उज्ज्वलो-निर्मल बहुसमः-अत्यन्तसमः सुविभक्तो भूमिभागी यत्र तत्तथा ।
'ईहामिगे'त्यादि प्राग्वत् व्याख्येयं, नवरंमरीचिकवचं-किरणजालपरिक्षणं विनिर्मुञ्चत्, तथा लाइअं नाम यद्भूमेर्गोमयादिना उपलेपनं उल्लोइअं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणलाउल्लोइअंताभ्यामिव महितं-पूजितं लाउल्लोइअमहिअं, यथा गोमयादिनोपपलिप्त सेटिकादिना च धवलीकृतं यद्वद् गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जाव झया' इति अत्र यावत्करणात् वक्ष्यमाणयमिकाराजधानीप्रकरणगतसिद्धायतनवर्णकेऽतिदिष्टः सुधर्मासभागमो वाच्यो, यावत्सिद्धायतनोपरि ध्वजा उपवर्णिता भवन्ति, यद्यप्यत्र यवत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडुच्छादिकं सर्वमन्तर्भवति तथापि स्थानाशून्यतार्थ किञ्चित् सूत्रे दर्शयति- 'तस्सणं सिद्धायतनस्स' इत्यादि, तस्य-सिद्धायतनस्य तिसृणां दिशां समाहारस्त्रिदिक् तस्मिन्, अनुस्वारः प्राकृतत्वात्, पूर्वदक्षिणोत्तरविभागेषुत्रीणिद्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पञ्चधनुःशतान्यूर्वोच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तावन्मात्रमेव प्रवेशेन, अर्द्धतृतीयानि धनुःशतानीत्यर्थः, 'सेआ वरकणगथूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तव्यो विजयद्वारवयावद्वनमालावर्णनम् अत्रैव भूभागवर्णनायाह
_ 'तस्सण मित्यादि सुगम, सिद्धाययनस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको देवच्छन्दको देवोपवेशस्थानं प्रज्ञप्तः, अत्रानुक्तापि आया
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org