________________
वक्षस्कारः-१
७१
कलानां १९भागयोजन ९७६६ कला १, येचवर्गमूलावशिष्टः कलांशास्तद्विवक्षयाच सूत्रकृता कलायाविशेषाधिकत्वमभ्यधायि,आह-एवंजीवाकरणेऽपिवर्गमूलावशिष्टकलांशानांसद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति?, उच्यते, सूत्रगतेर्वैचित्र्यादविवक्षितत्वात्, 'विवक्षाप्रधानानि हि सूत्राणी'ति, एवं वैताढ्यादिधनुःपृष्ठेष्वपि भाव्यं, यावद्दाक्षिणात्यविदेहार्द्धधनुःपृष्ठं, एवमुत्तरत उत्तरातार्द्धधनुःपृष्ठं यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षिणभरता बाहाया असम्भवः ।। ___अथ दक्षिणभरतार्द्धस्वरूप पृच्छन्निदमाह-'दाहिणद्धे त्यादि, दक्षिणार्द्धभरतस्य भगवन् कीशः आकारस्य-स्वरूपस्य भावाः-पर्यायास्तेषां प्रत्यवतारः-प्रादुर्भावः प्रज्ञप्तः?,कीशः प्रसतुतक्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह--गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः ‘से जहानामए आलिंगपुक्खरेइवे' त्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः, यावन्नानाविधपञ्चवर्णै मणिभिस्तृणैचोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टर्मणिभिस्तृणैश्च कृत्रिनैःक्रमेण शिल्पिकर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुप्तसम्भूतैरुप-शोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अनेनास्य कर्मभूमित्वममाणि, अन्यथाहैमवताधक-मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौसमुच्चयार्थी एवकाराववधारणार्थों, अथवाचैवेत्यखण्डमव्ययं समुच्चयार्थं, अपिचेत्यादिवत् । ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेम च सह 'खाणुबहु विसमबहुले कंटगबहुले' इत्यादिसमानान्यभरतवर्णकसूत्रं विरुध्यति, न चैते सूत्रे अरकविशेषापेक्षे सामान्यभरत- सूत्रं तु प्रज्ञापककालीनत्वस्यैवौचित्यात, कृत्रिममणितृणानां तत्रैव सम्भवात्, प्रज्ञापककाल-चावसर्पिण्यां तृतीयारकमान्तादारभ्य वर्षशतोनदुष्पभारकं यावदिति चेत्, उच्यते, अत्र 'खागुबहुले विसमबहुले' इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन कचिद्देशविशेषे पुरुषविशेषस्य पुण्यफल- भोगार्थमुपसम्पद्यमानं भूमेर्बहुसमरमणीयत्वादिकंन विरुध्यति, भोजकवैचित्र्यै भोग्यवैचित्र्यस्य नियतत्वात्, अनेनास्यैकान्तशुभकान्ताशुभमिश्रलक्षणकालत्रयाधारकत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वेअशुभा एव मिश्रेतुक्वचिच्छुभाः क्वचिदशुभाः,अत एव पञ्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्वं सुस्थं । ____ अथ तत्रैव मनुष्यस्वरूपं पृच्छति-'दाहिणद्धभरहे'त्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे भगवानाह-गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि-वज्रऋषभनाराचादीनि संहननानि-वपुढीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि-समचतुरस्रादीनि संस्थानानि-विशिष्टावयवरचनात्मकशरीराकृतयो येषां तेतथा, बहवो-नानाविधा उच्चत्वस्यशरीरोच्छ्यस्य पर्यवाः-पञ्चधनुःशतसप्तहस्तमानादिका विशेषा येषां ते तथा बहवः आयुषःपूर्वकोटिवर्षशतादिकाः पर्यवा विशेषायेषां तेतथा, बहूनि वर्षामिआयुः पालयन्ति, पालयित्वा अपि संभावनायां एके-केचननिरयगतिगामिनः-नरकगतिगन्तारःएवमप्येककेतिर्यग्गतिगामिनः अप्येकके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येककेसिध्यन्ति-सकलकर्मक्षयकरणेन निष्ठितार्थीभवन्ति बुध्यन्ते-केवलालोकेन वस्तुत्वं जानन्ति मुच्यन्ते भवोपग्राहिकर्माशेभ्य' परिनिर्वान्ति-कर्मकृततापविरहाच्छीति भवन्ति, किमुक्तं भवति ?-सर्वदुःखानामन्तं कुर्वन्ति,
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org