SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् १/१२ तिम्रश्चापराः कलाः इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणाकृता, शरविष्कम्भयोरभेदादिति। अथ जीवासूत्रमाह "तस्स जीवेत्यादि, तस्य दक्षिणाद्धभरतस्यजीवेवजीवा-ऋज्ची सर्वान्तिमप्रदेशपङिक्त, उत्तरेण-उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने पूर्वस्यांप्रतीचीने-अपरस्यांचाऽऽयता-आयामवती द्विधालवणसमुद्रंस्पृष्टा छुप्तवती इदमेवार्थंद्योयति-'पुरथिमिल्लाए' इतिपूर्वया कोट्या-अग्रभागेन पौरस्त्यं लवणसमुद्रावयं स्पृष्टा पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रवयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि-अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभागानयोजनस्यायामेन, यच्च समवायाङ्गसूत्रे- 'दाहिणभरहस्सणंजीवा पाईणपडीणायया दुहओलवणसमुदं पुट्ठानवजोअणसहस्साइंआयामेण'मित्युक्तं तत्सूचामात्रत्वात्सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारेण तुअयमवशि-टराशिरूपोविशेषोगृहीत इति, अत्र सूत्रेऽनुक्तापिजीवानयने करणभावना दयते, तथाहि जम्बूद्वीबपव्यासाद्विवक्षितक्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनश्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो राशिर्विवक्षितक्षेत्रस्य जीवावर्गइत्युच्यते, अस्माच्च मूले गृह्यमाणे यल्लभ्यते तज्जीवाकलामानं, तस्यचैकोनविंशत्या भागेयोजनराशिशेषश्च कलाराशि, तत्रजीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि, तच्चन परिपूर्णयोजनसंख्याकं किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षितक्षेत्रादेरिषुः सवर्णनार्थं कलीक्रियते, सच्च कलीकृतादेवजम्बूद्वीपव्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि १ शून्य ५ रूपः कलीकरणायैकोनविंशत्या गुण्यते जातः १९ शून्यः ५, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशदद्विशतयोजनमितस्य कलीकृतस्य प्रक्षिप्तोपरितनकलात्रिकस्य ४५२५ रूपस्य शोधने जातः १८९५४७५, ततश्च दक्षिणार्द्धषुणा ४५२५ रूपेण गुण्यते जातः, ८५७७०२४३७५, अयं चतुर्गुणः ३४३०८०९७५००, एष दक्षिणभरतार्द्धस्य जीवावर्ग, एतस्य वर्गमूलानयनेन लब्धाः कलाः १८५२२४, शेषं कलांशाः १६७३२४,छेदराशिरधः ३७०४४८, लब्धकलानां १९भागेयोजन ९७४७ कलाः १२, इयं दक्षिणभरतार्द्धजीवा, एवं वैताट्यदिजीवास्वपि भाव्यं, यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैवतार्द्धजीवा यावदुत्तरार्द्धविदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुःपृष्ठं निरूपयति-तीसे धणुपट्टे'इत्यादि, तस्याः-अनन्तरोक्ताया जीवाया दक्षिणतो-दक्षिणस्यां दिशि लवणदिशीत्यर्थ धनुःपृष्ठ अधिकारात्दक्षिणभरतार्द्धस्येति, यद्वा प्राकृतत्वाल्लिङ्गव्यत्यये तीसे इति तस्य-दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षष्टयधिकानि सप्त च योजनशतानि एकं चैकोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिकंपरिक्षेपेण-परिधिनाप्रज्ञप्तं,अत्रकरणभावना यथा-विवक्षितेषौ विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुतेच यो राशिसधुनःपृष्ठवर्ग इति व्यपदिश्यते,तस्मात्र वर्गमूले लब्धाना कलानां १९ भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि-दक्षिणभरतार्द्धषुकलाः ४५२५, अस्य वर्ग २०४७५३२५, अयं षडगुणः १२२८५३७५०, अथ दक्षिणभरतार्द्धस्य जीवावर्ग ३४३०८०९७५००, अनयोयुति ३४४३०९५१२५०, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः १८५५५५, शेषं कलांशाः २९३२२५, छेदकराशिरधस्तात् ३७१२१०, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy