________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/११ लताः-पद्मलताद्याः वल्लयः-कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीनामशुभानुभावजनितानामेव बाहुल्यं बोध्यं, नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां, तेषां प्रायः प्रज्ञापककालेऽल्पीयस्त्वात्, अटव्यो-दूरतरजननवासस्थाना भूमयः श्वापदाहिंसजीवाः स्तेनाः-चौराः तदेव कुर्वन्तीति निरुक्तितस्तस्कराः-सर्वदाचौर्यकारिणः डिम्बानिस्वदेशोत्यविप्लवा डमराणि--परराजकृतोपद्रवाः दुर्भिक्षं-भिक्षाचराणां भिक्षादुर्लभत्वं, दुष्कालोधान्यमहार्यतादिना दुष्टः कालः पाखण्डं-पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः प्रतीताः । __-वनीपका-याचका ईति-धान्याधुपद्रवकारिशलभमूषिकादि मारि-मरकः कुत्सिता वृष्टि कुवृष्टि कर्षकजनानभिलषणीयावृष्टिरित्यर्थः, अनावृष्टिवर्षणाभाव इति राजानःआधिपत्यकर्तारः तद्बाहुल्यंचप्रजानां पीडाहेतुरिति रोगाःसंक्लेशाश्चव्यक्ताः, अभीक्ष्णं२-पुनः पुनर्दण्डपारुष्यादिना संक्षोभाःचित्तानवस्थितता प्रजानामिति शेषः, इदंचसर्वविशेषणजातंभरतस्य प्रज्ञापकापेक्षयामध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुषमादावस्य बहुसमरमणीयत्वा-तिस्निग्धत्वादिकमेकान्तदुष्पमादौ निर्वनस्पतिकत्वाराजत्वादिकंच वक्ष्यमाणंन विरुध्यते इति ___ -प्रागेवप्राचीनं, स्वार्थे ईनप्रत्ययः, दिग्विवक्षायांप्राचीनंपूर्वाइत्यर्थः, एवंप्रतीचीनोदीचीने अपिवाच्ये,तेन पूर्वापरयोर्दिशोरायतं उदीचीदक्षिणयोर्दिशोर्विस्तीर्णं, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्रापि, अथतदेव संस्थानतोविशिनष्टि-उत्तरतः-उत्तरस्यांदिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि आरोपितज्यस्य धनुषः-कोदण्डस्य पृष्ठं-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अतएवास्य धनुःपृष्ठशरजीवाबाहानां सम्भवः, एषांचस्वरूपं स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्रक्रमेणपूर्वदक्षिणापरलवणसमुद्रावयवंस्पृष्टं-धातूनामनेकार्थत्वात्प्राप्त, ग्रामप्राप्त इत्यादिवत् कतरिक्तप्रत्ययः अयमर्थः-पूर्वकोटया पूर्वलवणसमुद्रधनुःपृष्ठेन दक्षिणलवणसमुद्रंअपरकोटया पश्चिमलवणसमुद्रं संस्पृश्यस्थितमिति, अथेदमेवषटखण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदोभ्यां वैताढ्येन च पर्वतेन षट्संख्या भागाः षटभागास्तैर्विभक्तं, अयमर्थःअनन्तरोदितैस्त्रभिर्दक्षिणोत्तरयोः प्रयेकं खण्डत्रयकरणेन भरतस्य षट् खण्डानि कृतानीति।
अथ यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्मतः तस्य कतितमे भागे तदित्याह'जंबुद्दीवे'त्यादि, जम्बूद्वीपद्वीपस्य-जम्बूद्वीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्ति योजनानीत्याह-'पञ्चषड्विंशत्यधिकानियोजनशतानि षट्च योजनस्यैकोनविंशतिभागान्, कोऽर्थः?-याध्शैरेकोनविंशतिभागैः समुदितैर्योजनं भवति ताद्दशान् षट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं योजनानि, एतावानेव च भरतविस्तारः, ननुभाजकराशिर्नवत्यधिकशतरूपः षड्भागास्तुयोजनैकोनविंशति-कलारूपा इति विसशमिव प्रतिभाति, उच्यते, तथाहि- जम्बूद्वीपव्यासस्य योजनलक्ष मितस्य नवत्यधिकशतभक्तस्यावशिष्टः षष्टिरूपो राशिभगदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्तेजाता भाज्यराशीषट् भाजकराशौ इति सर्वसुस्थं, ननु नवत्यधिकशतरूपभाजकाकोत्पत्ती किं बीजमिति ?, उच्यते, एको भागो भरतस्य द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org