SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - १ ६५ एतेषां द्वन्द्वस्तेषां रवेण - नादेन सहकारिभूतेन दिवि भवान् दिव्यान् अतिप्रधानानिति, तथा भोगार्हा भोगाः - शब्दादयो भोगभोगाः, अथवा भोगेभ्य-औदारिककायभावेभ्योऽतिशयिनो भोगा भोगभोगास्तान् भुञ्जानः- अनुभवन् विहरति आस्ते, अत्र व्यत्ययः प्राकृतत्वात्, 'से एएणड्डेण'मित्यादि, तत एतेनार्थेन गौतम! एवमुच्यते-विजयं द्वारं विजयं द्वारमिति । विजयाभिधानदेवस्वामिकत्वाद्विजयो देवः स्वामित्वेनास्यास्तीति वा अभ्रादित्वादप्रत्यये विजयमिति भावः, देवस्य विजयाभिधानता च यो यः पूर्वद्वाराधिपतिरुत्पद्यते देवः स स तत्सामानिकादिभिर्देवैः विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके कल्पपुस्तके तथाभिधानात्, "अदुत्तरं च णं गोअमा ! विजयस्स णं दारस्स सासए नामधिज्जे पन्नत्ते, जं न कयाइ नासि न कयाइ नत्थि न कयाइ न भविस्सइ जाव अवट्ठिए निच्चे विजए दारे" अथापरमपि विजयद्वारनामप्रवृत्तौ कारणं गौतम ! विजयस्य द्वारस्य विजयमिति नामधेयं शाश्वतम् - अनादिसिद्धं प्रज्ञर्त, शेषं सुगमं एतत्सूत्रं वृत्तावद्दष्टव्याख्यानमपि जीवाभिगमसूत्रबह्लादर्शेषु द्दष्टत्वाल्लिखितमस्तीति अथ राजधानीवर्णको यथा--'कहि णं भंते! विजयस्स देवस्स विजया नामं रायहाणी पन्नत्ता ?, गोयमा ! विजयस्स दारस्स पुरत्थिमं तिरिअमसंखिज्जे दीवसमुद्दे वीईवइत्ता अन्नंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता, एत्थ णं विजयस्स देवस्स विजया नामं रायहाणी पन्नत्ता इत्यारभ्य विजए देवे २' इत्यन्तं सूत्रं ज्ञेयं, अत्र प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे विजयद्वारस्य पूर्वस्यां दिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्य - अतिक्रम्यात्रान्तरे योऽन्यो जम्बूद्वीपोऽधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजन सहस्राण्यवगाह्य अत्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता मयाऽन्यैश्च तीर्थकृद्भिरित्यादि तावद् वाच्यं यावन्निर्गमनसूत्रे विजयो देवो २ इति, अत्र च प्रारब्धोऽपि जीवाभिगमोक्तविजयानामराजधानीवर्णकः सामस्त्येन यन्न लिखितस्तद् ग्रन्थविस्तरभयात् वक्ष्यमाणयमकाराजधान्यधिकारे एवंविधवर्णकस्य साक्षाद्विद्यमानत्वेन व्याख्यास्यमानत्वाच्चेति, अत्र प्रस्तुतसूत्रे शेषद्वाराणां सराजधानीकानां स्वरूपकथनायातिदेशमाह- एवंविजयद्वारप्रकारेण चत्वार्यपि जम्बूद्वीपस्य द्वाराणि सराजधानीकानि भणितव्यानि, ननु विजयद्वारस्य वर्णितत्वात् सूत्रे कथं चतुर्द्वारविषयको ऽतिदेशः समसूत्रि ?, उच्यते । अतिदेश्यातिदेशप्रतियोगिनोरत्यन्ततुल्यवर्णकत्वप्रतिपादनार्थ, ततश्च यथा विजयद्वारस्य वर्णस्तथा वैजयन्तजयन्तापराजितद्वाराणामपि यथा चामीषां त्रयाणां तथा विजयद्वारस्यापि, यथा विजयराजधान्या वर्णकस्तथा वैजयन्ताजयन्तापराजिताराजधानीनामपि यथा च तासां तिसृणां तथा विजयाराजधान्या अपीत्यर्थ सिद्धः अस्ति चायं न्यायः, 'एगे जिए जिआ पंच' इत्यादौ तथा दर्शनात्, अमूनि च द्वाराणि पूर्वदिक्तः प्रादक्षिण्येन नामतो ज्ञेयानि, तथाहि पूर्वस्यां विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्थामपराजितं चेति, अत्र वैजयन्तादिद्वाराणामपि जीवाभिगमत एव प्रश्ननिव्रचनरूपा आलापका वेदितव्याः, तथाहि कहि णं भंते! जंबुद्दीवस्स दीवस्स वेजयंते नामं दारे पन्नत्ते ?, गोअमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं पणयालीसं जो अणसहस्साई अबाहाए जंबुद्दीवदीवदाहिणपेरते वलणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं 135 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy