SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ ‘से केणटेणं मंते ! एवं वुच्चइ विजए दारे २?, गोयमा! विजए णं दारे विजए नामं देवे महिटिए महज्जुईए महाबले महायसे महासोक्खे पलिओवमठिइए परिवसइ, सेणं तत्थ चउण्हं सामानियसाहस्सीणंचउण्हं अग्गमहिसीणं सपरिवाराणंतिण्हं परिसाणंसत्तण्हंअनीयाणं सत्तण्हं अणियाहिवईणंसोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्सणं दारस्स विजयाएअरायहाणीए अनेसिं च बहूणं विजयारायहाणीवत्थव्वाणं देवाणं देवीण य आहेवचं पोरेवचं सामित्तं भट्टितं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, से तेणड्डेणं एवं दुइ विजए दारे २"इति । अथ केनार्थेन भदन्त! एवमुच्यते-विजयद्वारे विजयद्वारमिति ? भगवानाह-गौतम ! विजयेद्वारे विजयो नाम प्राकृतत्वादव्यत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थप्रवाहतः-अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको महती ऋद्धि-भवनपरिवारादिका यस्यासौ महर्द्धिकः, महाधुतिकाः' महती द्युतिशरीरगता आभरणगता च यस्यासी महाद्युतिकः, तथा महत्बलं-शारीरःप्राणो यस्यसमहाबलः, तथा महत् यशः-ख्यातिर्यस्यासौ महायशाः, तथा ‘महेसक्खे' इति महान् ईश इत्याख्या-प्रसिद्धिर्यस्यासौ महेशाख्यः, अथवा ईशनं ईशोभावेधप्रत्ययः एश्वर्यमित्यर्थः, ईशएश्वर्ये इतिवचनात्, ततईशं-एश्वर्यं आत्मनः ख्याति–अन्तर्भूतण्यर्थतयाख्यापयति-प्रथयति स ईशाख्यःमहांश्चासावीशाख्यश्च महेशाख्यः, कचिन्महासोक्खे इति पाठः, तत्र महत्सौख्यं-प्रभूतसद्वेद्योदयवशाधस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, सचतत्रचतसृणां सामानिकसहस्राणांचतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणामभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानांपर्षदां, सप्तानीकानां-हयानीकगजानीकरयानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणांसप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकसहस्राणां विजयस्य द्वारस्य विजयायाश्च राजधान्या अन्येषांचबहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यात्मरक्षकेणेव क्रियते तत आह-पौरपत्यंपुरस्यपतिपुरपति तस्यकर्मपौरपत्यं, सर्वेषामग्रेसरत्वमिति भावः, तत्राग्रेसरत्वं नायकत्वमन्तरेणापिस्वनायकनियुक्तथाविधगृहचिन्तकसामान्यपरुषस्येव । ततो नायकत्वप्रतिपत्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं पोषकत्वमन्तरेणापि भवति यथा मृगयूथाधिपतेर्मूगस्य, तत आह-भर्तृत्वं पोषकत्वं, 'डुभृञ, धारणपोषणयो' रिति वचनात्, अत एव महत्तरकत्वं, महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्गप्रति, तत आह-आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पतिसेनापति आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतितस्य कर्मआशेश्वरसेनापत्यं स्वसैन्यंप्रत्यद्भुतमाज्ञाप्राधान्यमित्यर्थकारयन्अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता ‘रवेणे ति योगः 'अहय'त्ति आख्यानकप्रतिबद्धानि यदिवा अहतानि-अव्याहतानि नित्यानुबन्धानीति भावः, ये नाट्यगीते नाट्यं नृत्यं गीतं-गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि, तन्त्री-वीणा तलो-हस्ततलस्तालः-कंशिका त्रुटितानि-शेषतूर्याणि, तथायश्चधनमृदङ्गो-मेघसशध्वनिर्मुरजः पटुनापुरुषेण प्रवादितस्तत For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy