SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -१ जंबूणयकण्णियावइरसंधी मुत्ताजालपरिगयाअट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधिसब्बोउयसुरहिसीयलच्छायामंगलभत्तिचित्ता चंदागारोवमा"इति, अत्र व्याख्या तेषांतोरणानांपुरतो द्वे द्वे रूप्यच्छदे-रजतमयाच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरलमयविमलदण्डानि जाम्बूनदं-सुवर्णतन्मयी कर्णिका येषांतानिजाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि-वज्ररत्नापूरितदण्डशलाकासन्धीनी मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसंख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषुतानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दद्दरमलयसुगंधिसव्वोउयसुरहिसीअलच्छाया' इति दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभि शीतला च छाया येषा तानि तथा, 'मंगलभत्तिचित्ता' मङ्गलानां-स्वस्तिकादीनां अष्टानां भक्त्या-विच्छित्या चित्रं-आलेखो येषां तानि तथा, 'चंदागारोवमा' इति चन्द्राकारः-- चन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः ।। "तेसिणं तोरणाणं पुरओ दो दो चामराओपन्नत्ताओ, ताओणंचामराओ चंदप्पभवइरवेरुलियणाणामणिरयणखचियविचित्तदंडाओ सुहुमरययदीहवालाओ संखंककुंददगरयअभयमहिअफेणपुंजसण्णिगासाओ अच्छाओ जाव पडिरूवाओ" तेषां तोरणानां पुरतो वे द्वे चामरे प्रज्ञप्ते, सूत्रे चामरशब्दस्य स्त्रत्वं प्राकृततत्वात्, तानि च चामराणि ,चंद० इति चन्द्रप्रभः-चन्द्रकान्तो वजं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरलानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा नानाकारा दण्डा येषां चामराणां तानि तथा, सूक्ष्मा रजतमया दीर्घावाल येषांतानि तथा, संख० इतिशङ्कः-प्रतीतःअको-रलविशेषः 'कुंदे'ति कुन्दपुष्पं दकरजः-उदककणाःअमृतमथितफेनपुला:-क्षीरोदजलमथनसमुत्थाफेनपुंजास्तेषामिव सनिकाशः-प्रभा येषां तानि तथा, "अच्छाओ इत्यादि प्राग्वत्।। "तेसिणंतोरणाणंपुरओदो दो तेल्लसमुग्गयापन्नत्ताकोट्ठसमुग्गा पत्तसमुगावोअसमुग्गा तगरसमुग्गा एलासमुग्गा हरिआलसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामयाअच्छा जावपडिरूवा" तेषांतोरणानां पुतोद्वौ द्वौ तैलसमुद्गकौ-सुगन्धितैलाधारविशेषौ प्रज्ञप्ती, एवं कोष्ठादिसमुद्गका अपि वाच्याः, नवरं कोष्ठ-गन्धद्रव्यविशेषः पत्रं-तमालपत्रादि चोअं-त्वग्नामकंगन्धद्रव्यं अञ्जनं-सौवीराजनं, अत्र सङ्ग्रहणिगाथा--- ॥१॥ "तेल्ले कोट्ट समुग्गे पत्ते चोए अतगर एलाय। हरिआले हिंगुलए मणोसिला अंजणसमुग्गे ॥" इति, एते सर्वेऽपि समुद्गकाः सर्वात्मना रलमया इत्यादि प्राग्वत्, "विजए णं दारे अहसयं चक्कझयाणं अट्ठसयं मिगझयाणं अट्ठसयं गरुलज्झयाणं अट्ठसयं विगज्झयाणं अट्ठसयं छत्तज्झयाणं अट्ठसयं पिछज्झयाणं अट्ठसयं सउणिज्झयाणं अट्ठसयं सिंहज्झयाणं अट्ठसयं वसहज्झयाणंअट्ठसयंसेआणंचउविसाणवरनागकेऊणंएवामेव सपुव्वावरेणं विजयद्दारे असीयं केउसहस्सं भवतित्तिमक्खायं" अत्र व्याख्या-तस्मिन् विजयद्वारे अष्टशतं-अष्टाधिकं शतं चक्रध्वजानां चक्रालेखरूपचिन्होपेतानां ध्वजानां, एवंमृगगरुडवृकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं, एवामेव- अनेन प्रकारेण सह पूर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy