SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - १ ५९ वलक्खा अंकामया मण्डला अणोग्धसि अनिम्मलाए छायाए सव्वओ चेव समणुबद्धा चंदमंडलपडिनिकासा महया २ अद्धकायसमाणा पन्नत्ता समणाउसो !" तेषां तोरणानां पुरतो द्वौ द्वावादर्शकौ - दर्पणी प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - तपनीयमया प्रकंठका - पीठविशेषाः वैडूर्यमयाः थासकाः - आदर्शगण्डप्रतिबद्धप्रदेशाः, आदर्शगण्डानां मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्रमया वारगा--गंडा इत्यर्थः, नानामणिमया वलक्षाः, वलक्षो नाम श्रृङ्खलादिरूपमवलम्बनं येन सम्बद्ध आदर्श सुस्थिरो भवति, तथा अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्बसंभूति, तथा अवघर्षणमवधर्षितं भावे क्तप्रत्ययः भूत्यादिना निर्मार्ज्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मला अनवद्यर्षितनिर्मला तया छायया - कान्त्या समनुबद्धा --युक्ताः, तथा 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसध्शाः 'महयामहया' इति अतिशयेन महान्तोऽर्द्धकायसमानां - आलोककव्यन्तरादिकायार्द्धप्रमाणा इत्यर्थः । "तेसि णं तोरणाणं पुरओ दो दो वइरनाभा थाला पन्नत्ता, ते णं अच्छतिच्छडियासालितंदुलनहसंदट्ठपडिपुण्णाविव चिट्ठति सवजंबूणयामया अच्छा जाव पडिरूवा महया महा रहचक्कसमाणा पन्नत्ता समणाउसो !” तेषा तोरणानां पुरतो द्वे द्वे वज्रमयो नाभि - मध्यभागो ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते, तानि च स्थालानि तिष्ठन्तीति क्रियायोगः, अच्छा-निर्मलाः शुद्धस्फटिकवत् त्रिच्छटिकाः -- त्रीन् वारान् छटिता - निस्त्वचिता अत एव 'नखसंदष्टाः' नखाःनखिकाः संदष्टा–मुसलादिभिश्चुम्बिता येषां ते तथा, अत्र निष्ठान्तस्य परनिपातः भार्योढादिदर्शनात्, अच्छेः त्रिच्छटितैः शालितन्दुलैः नखसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानि, पृथिवीपरिणामरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह'सव्वजंबूमयामया' इति सर्वात्मना जाम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत्, 'महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दी दो पाईओ पन्नत्ताओ, ताओ णं पाईओ अच्छोदगपडिहत्थाओ नानाविहस्स फलहरिअस्स बहुपडिपुण्णाओ विव चिट्ठति, सव्वरयणामईओ जाव पडिरूवाओ, महयामहया गोकलिंजचक्कसमाणाओ पन्नत्ताओ समणाउसो !" तेषां तोरणानां पुरतो द्वे द्वे पात्र्यौ प्रज्ञप्ते, ताश्च पाञ्यो ऽच्छेनोदकेन 'पडिहत्थाओ' त्ति परिपूर्णा देशीशब्दोऽयं, 'नानाविहस्स फलहरिअस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात्, नानाविधैः हरितफलैः बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महयामहया' इति अतिशयेन महत्यः, गवां चरणार्थं यद्वंशदलमयं महद्भाजनं डल्लेति प्रसिद्धं तद् गोकलिअमुच्यते, तदेव चक्रं वृत्ताकारत्वात् तत्समानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् “तेसि णं तोरणाणं पुरओ दो दो सुपइङगा पन्नत्ता, ते णं सुपइङगा सुसव्वोसहिपडिपुण्णा नानाविहस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिडंति, सव्वरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसर्वौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णै प्रसाधनाभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, उपमानभावना प्राग्वत्, 'सव्वरयणामय' इत्यादि प्राग्वत् “तेसि णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy