SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/८ तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भा मुक्तादामभिस्तद र्धोच्चत्वप्रमाणमात्रैः सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन संपरिक्षिप्तानि, 'अद्धकुंभिकेहिं' इत्यत्र अर्द्धशब्दः सूत्रे द्दश्यमानोऽपि वृत्तावव्याख्यातत्वान्न व्याख्यात इति । 'ते णंदामा' इत्यादि दामवर्णकसूत्रं पद्मवरवेदिकादामवर्णकवद् व्याख्येयं, अत्र सूत्रादर्शेषु क्वचित् 'तेसि णं पासायवडिंसगाणं उपिं अट्ठट्टमंगलगा पन्नत्ता, सोत्थियसीहासन जाव छत्ताइछत्ता' इति सूत्रं श्यते, तदव्याख्यानं च व्यक्तमिति, 'विजयस्स णं दारस्स उभओपासिं दुहओनिसीहियाए दो दो तोरणा पन्नत्ता, ते णं तोरणा नानामणिमया तहेव जाव अट्ठट्ठमंगलगा झया छत्ताइच्चत्ता, तेसि णं तोरणाणं पुरओ दो दो सालभंजिआ पन्नत्ता जहेव हेट्ठा तहेव, तेसिणं तोरणाणं पुरओ दो दो नागदंतगा पन्नत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिए तहेव, तेसु णं नागदंतएसु बहवे किण्हसुत्तवद्धवग्घारियमल्लदामकलावा जाव चिट्ठति' सर्वं चैतत् सूत्रं प्राग्वत् ज्ञेयं, नवरं नागदन्तकसूत्रे उपरि नागदन्तका न वक्तव्याः अभावादिति, “तेसि णं तोरणाणं पुरओ दो दो हयसंघाडगा जाव उसहसंघाडगा सव्वरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वीहीओ मिहुणगा, तेसि णं तोरणाणं पुरओ दो दो पउमलयाओ जाव पडिरूवाओ । अत्र व्याख्या - तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटकौ द्वौ द्वौ गजसंघाटकी द्वौ द्वौ नरसंघाटकौ द्वौ द्वी किंपुरुषसंघाटकी द्वौ द्वौ महोरगसंघाटकौ द्वौ द्वौ गन्धर्वसंघाटकी द्वौ द्वौ वृषभसंघाटकी, एते च कथंभूता इत्याह- 'सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, एवं पंक्तिवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि, 'तेसिणमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह- 'निचं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निच्चं थवइयाओ निचं गुलइयाओ निचं गुच्छियाओ निचं जमलियाओ निचं जुअलियाओ निचं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवडिंसगधरीओ निच्चं कुसुमियमउलियलवइयथवइयगुलइय गोच्छियविणमियपणमियसुविभत्तपडिमंजरिवर्डिसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथंभूता इत्याह- 'सव्वरयणामया जाव पडिरूवा' इति अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, स च प्राग्वद्भावनीयः, “तेसि णं तोरणाणं पुरओ दो दो वंदनकलसा पन्नत्ता, ते णं वंदनकलसा वरकमलपट्ठाणा तहेव सव्वरयणामया जाव पडिरूवा'' इति, तेषं तोरणानां पुरतो द्वौ द्वौ वन्दनकलशौ प्रज्ञप्तौ वर्णकश्च प्राक्तनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पन्नत्ता वरकमलपइट्ठाणा तहेव सव्वरयणामया अच्छा जाव पडिरूवा मत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो !' तेषां तोरणाना पुरतो aat भृङ्गारकी कनकालुकापरपर्यायी प्रज्ञप्ती, तेषामिव-वन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिईसमाणा पन्नत्ता समाउसो' इति वक्तव्यं, मत्तो यो गजस्तस्य महद् - अतिविशालं यन्मुखं तस्याकृति - आकारस्तत्समानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! । "तेसि णं तोरणाणं पुरओ दो दो आदंसगा पन्नत्ता, तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - तवणिज्जमया पगंठगा वेरुलियमया छरुहा वइरामया वारगा नानामणिमया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy