________________
वक्षस्कारः-१
५७
ट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया ४" इति।
_ 'तेसि ण मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमभरमणीयानां भूमिभागानां बहुमध्यदेशभागेप्रत्येकंसिंहासनं प्रज्ञप्तं, तेषांचसिंहासनानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि संहासनानि, सौवर्णिकाः-सुवर्णमयाः पादाः, तपनीयमयानिचक्कलानि-पादानामधःप्रदेशाः भवन्ति, मुक्तानानामणिमयानि पादशीर्षकाणिपादानामुपरितनाअवयवविशेषाः, जाम्बूदमयानिगात्राणि-ईषादीनि वज्रमया-वज्ररलापूरिताः सन्धयो गत्राणां सन्धिमेलाः नानामणिमयं चेचं-व्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभजावपद्मलता भक्तिचित्राणि, तथा सारसारैः-प्रधानप्रधानैर्विविधैर्ममिरलैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासः ।।
'अत्थरय०' इति आस्तरकं-आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्यपरनिपातः प्राकृतत्वात्, नवा त्वक्येषां तेनवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः-प्रत्यग्रत्वगदर्भपर्यन्तरूपा लिच्चानि-कोमलानि नम्रशीलानि च केसराणि, कचित् सिंहकेसरेतिपाठः तत्र सिंहकेसराणीव केसराणिमध्ये येषां मसूरकाणांतानि नवत्वक्कुशान्तलिचकेसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्यशाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वककुशान्तलिच्चकेसरैःप्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणितानितथा, विशेषणपूर्वापरनिपातोयाच्छिकःप्राकृतत्वात, तथा आईणग०' इतिआजिनक-चर्ममयं वस्त्र तच्च स्वभावादतिकोमलं स्यात् रूतं-कासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं तूलं-अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि तथा, परिकर्मितं यत् क्षोमं-दुकूलं कार्पासिकं वस्त्र तत्प्रतिच्छादनंरजस्त्राणस्योपरि द्वितीयमाच्छादनं येषांतानितथा, रक्ताशुकेन-अतिरमणीयेन वस्त्रेण संवृतानि -आच्छादितानि रक्तांशुकसंवृतानि, अत एव सुरम्याणि, 'पासाईया' इत्यादि प्राग्वत् ।
___“तेसि णं सीहासणाणं उपिं विजयदूसे पन्नत्ते, ते णं विजयदूसा संखकुंददगरयमयमहिअफेणपुंजसन्निकासा सव्वरयणामयाअच्छा जावपडिरूवा" तेषां सिंहासनानामुपरिप्रत्येक २ प्रतिसिंहासनमेकैकभावात् विजयदूष्यं-वितानकरूपो वस्त्रविशेषः प्रज्ञप्तः, तानि च विजयदूष्याणि शङ्खःप्रतीतः ‘कुंदे तिकुन्दकुसुमं दकरजः-उदककणाः अमृस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुओ-डिण्डीरोत्करस्तत्सन्निकाशानि-तत्समप्रभाणि, सर्वात्मना रलमयानि, शेषप्राग्वत, "तेसिणं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसाप०,तेसु णं वइरामएसु अंकुसेसुपत्तेयं २ कुंभिक्का मुत्तादामा प०, तेणं कुंभिक्का मुत्तादामा अन्नेहिं चउहिं तदछुच्चत्तप्पमाणमित्तेहिं अद्धकुंभिक्केहि मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियाजाव चिट्ठति" तेषां सिंहासनोपरिस्थिताना विजयदूष्याणां प्रत्येकं २ बहुमध्यदेशभागे अडशा अङ्गुशाकारा भुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु व वज्रमयेष्वनुशेषु प्रत्येकं प्रत्येकं कुम्भाग्रं-मगध-देशप्रसिद्धं कुम्भपरिमामं मुक्तामयं मुक्तादाम प्रज्ञप्तं, अत्र वृत्यनुसारेण 'कुंभिक्के मुत्तादामे पन्नत्ते' इति पाठः सम्भाव्यते, कुम्भमानं तु उत्तरत्र चर्मरलछत्ररत्नसमुदगकसथितस्य चक्रिणो गृहपतिरत्नेन धान्यराशिसमर्पणाधिकारे वक्ष्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org