________________
वक्षस्कारः - १
-
हालिद्द० सुक्किल्लसुत्तबद्धवग्धारिअमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरग मंडिया णाणामणिरणविविहहारद्धहारउवसोभियसमुदया जाव सिरीइ अईव उवसोभेमाणा २ चिट्ठति' - तेषुच नागदन्तकेषु बहवः कृष्णसूत्रबद्धा, अवलम्बिताः माल्यदा-मकलापाः - पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्ल सूत्रबद्धा अपि माल्यदामकलापा वाच्याः, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः- तपनीयमयो लम्बूसगो दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः - सामस्त्येन सुवर्णप्रतरकेण - सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणा मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा - अष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा- 'जाव सिरीए अईव उवसोभेमाणा २ चिट्ठति' अत्र यावत्करणात् एवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोष्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ एइज्जमाणा २ पलंबमाणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मनहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अतीव उवसोभेमाणा २ चिट्ठति' एतच पूर्वं पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, "तेसि णं नागदंतगाण उवरिं दो दो नागदंतगा पन्नत्ता, तेणं नागदंतगा मुत्ताजालंतरूसिया तहेव जाव समणाउसो !, तेसु णं नागदंतएसु बहवे रययामया सिक्कया पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहूईओ वेरुलियामईओ धूवघडीओ पन्नत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुद्धआभिरामाओ सुगंधवरगंधि आओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिव्वुइकरेणं गंधेणं ते पएसे सव्वओ समंता आपूरेमाणीओ २ सिरीए अईव उवसोभेमाणा २ चिट्ठति" अत्र व्याख्या
तेषा नागदन्तानामुपरि अन्यौ द्वौ द्वौ नागदन्तकौ प्रज्ञप्ती, ते च नागदन्तका मुत्तालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, 'तेसुण' मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु रजतमयेषु सिक्यकेषु बह्वयो वैडूर्य्यमय्यो धूपघटयः- धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरु प्रवरकुन्दुरक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च - सिह्नकं धूपश्च- दशाङ्गादि गन्धद्रव्यसंयोगज इति द्वन्द्वे तेषां सम्बन्धी यो 'मघमघेत 'त्ति मघमघायमानोऽतिशयवान् उद्धृतः - इतस्ततो विप्रसृतो गन्धस्तेनाभिरामाः, उद्धृतशब्दस्य परनिपात आर्षत्वात्, सुष्ठु - शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, तेच ते वरगन्धाश्च - प्रधानवासास्तेषां गन्धः स आसु अस्तीति सुगन्धवरगन्धगन्धिकाः 'अतोऽनेकस्वरा' दितीकप्रत्ययः अत एव गन्धवर्त्तिभूताः सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पाः उदारेण स्फारेण मनोज्ञेन--मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमत आहभ्राणमनोनिर्वृतिकरेण गन्धेन तान्-प्रत्यासन्नान् प्रदेशान् आपूरयन्त्यः २ श्रिया अतीव शोभमानाः २ तिष्ठन्ति । "विजयरस णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो सालभंजियाओ पन्नत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइडिआओ सुअलंकियाओ नानाविहरागवसणाओ रतावंगाओ असियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ नानामल्लपिणद्धाओ मुट्ठिगैज्झसुमज्झाओ आमेलगजमलजुअलवट्टि अअब्मुन्नयपीणरइ असंठियपयोहराओ ईसिं
For Private & Personal Use Only
५३
Jain Education International
-
www.jainelibrary.org