________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन मूय उपदर्शयति-श्वेतं, श्वेतत्वमेवोपमया द्रढयति-विमलं निर्मलं यत् शङ्कतलं-शबस्योपरितनो भागो यश्च निर्मलो दधिधनो-धनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च-रूप्यराशिस्तद्वप्रकाशः-प्रतिमता यस्य तत्तथा, तिलकरलानि-पुण्ड्रविशेषाः तैरर्द्धचन्द्रश्च-अर्द्धचन्द्राकारैः सोपानविशेषैश्चित्रं-चित्रकारि तिलकरलार्द्धचन्द्रचित्रं, तथा-नानामणिमयानि दामानि-मालास्तैरलङ्कृतंनानामणिदामालङ् कृतं, तथा अन्तर्बहिश्च-लक्ष्णपुद्गलस्कन्ध-निर्मापितं -तपनीयमय्यो वालुकाः-सिकतास्तासां -प्रस्तारो यत्र तत्तपनीय-वालुकाप्रस्तटं, 'सुहफास' इत्यादि प्राग्वत् ।
"विजयस्सणं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो चंदणकलसा पन्नता, ते चंदनकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा महया महया महिंदकुंभसमाणा पन्नत्ता समणाउसो!" अत्र व्याख्या-विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनषेधिकीमावेन दुहओ'त्तिप्राकृतत्वात् ह्रस्वत्वेद्विघातो-द्विप्रकारायांनषेधिक्यां,नषेधिकी चात्र निषदनस्थानं, तत्र प्रत्येकं द्वौ द्वौ वन्दनाय कलशौ वन्दनकलशौ-माल्यघटौ प्रज्ञप्ती, तेच वन्दनकलशा वरकमलं प्रतिष्ठानं-आधारोयेषांतेतथा, सुरभिवरवारिपरिपूर्णा, चन्दनकृतचर्चाकाः--चन्दनकृतोपरागाः, आविद्धः-आरोपिताः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते तथा, कण्ठेकालवत् सप्तम्या अलुप्, तथा पद्ममुत्पलंच यथायोगंपिधानं येषां ते तथा, 'सव्वरयणामया' इत्यादि प्राग्वत्, अतिशयेन महान्तो महेन्द्रकुम्भसमानाः' कुम्भानामिन्द्रइन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्यपूर्वनिपातः, महांश्चासाविन्द्रकुम्भश्चतस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणाः यद्वा महीन्द्रो-राजा तदर्थं तस्य सम्बन्धिनो वा कुम्मा--अभिषेककलशाः तत्समानाः प्रज्ञप्ताः।
हे श्रमण ! हे आयुष्मन् !, 'विजयस्सणंदारस्स उभओपासिं दुहओ निसीहियाए दो दो नागदंतगा पन्नत्ता, तेणं नागदंतगामुत्ताजलंतरूसिअहेमजालगवखजालखिंखिणीघंटाजालपरिखित्ता अब्झुग्गया अभिनिसिहा तिरिअं सुसंपग्गहिया अहेपन्नगद्धरूवा पन्नगद्धसंठाणसंठिया सव्वइरामया अच्छा जाव पडिरूवा महया २ गयदंतसमाणा पन्नत्ता समणाउसो!' विजयस्य द्वारस्येत्यादिपदयोजनाप्राग्वत्, द्वौ द्वौ नागदन्तकौ-नकुटिको अङ्गुटिकावित्यर्थप्रज्ञप्ती, तेच नागदन्तका मुक्ताजालानामन्तरेषुयानि उच्छ्रितानि-लम्बमानानि हेमजालानि-हेममया दामसमूहा यानिच गवाक्षालानि-गवाक्षाकृतिरतन्विशेषाः दामसमूहा यानि च किंकिणीघण्टाजालानि-क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः--सर्वतो व्याप्ताः,अभिमुखमुद्गता अभ्युद्गता-अग्रिमभागेमनागुनता इति भावः, येनतेषुमाल्यदामानिसुस्थितानि भवन्ति, अभिमुखं-बहि गाभिमुखं निसृष्टा-निर्गताः अभिनिसृष्टाः तिर्यग्-भित्तिप्रदेशैः सुछु-अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः ‘अहेपन्नगद्धरूवा' इति अधः-अधस्तनंयत्पन्नगस्य-सर्पस्यार्द्धतस्येवरूपं आकारो येषांतेतथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेतिभावः,एतदेवव्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः अधःपत्रगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत्, ‘महया महया' इति अतिशयेन महान्तो गजदन्तसमाना:-गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !।
"तेसुणंनागदंतएसुबहवेकिण्हसुत्तवद्धवग्धारिअमल्लदामकलावा एवं नील० लोहिअए०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org