________________
वक्षस्कारः-१
पासाईए ४" इति, अत्र व्याख्या
'ईहामिगे' त्यादि विशेषणदशकंपनवरदेदिकागतवापीतोरणाधिकारे व्याख्यातार्थमिति ततोऽवसेयं, वण्णोदारस्स तस्सिमो होइ' इति वर्णको-वर्णकनिवेशो द्वारस्य-विजयाभिधानस्यायं-वक्ष्यमाणो भवति, तमेवाह-'तंजहे त्यादि, तद्यथा-'वयरामयाणेमा'इत्यादि, अत्र च द्वारवर्णनाधिकारे यत्र केवलं विशेषणंतत्रसाक्षात् द्वारस्य विशेषणतायत्रतु विशेष्यसहितं तत्र तस्येतिगम्यं,तेन तस्य विजयद्वारस्य वज्रमयानेमा-भूमिभागादूर्ध्वनिष्कामन्तःप्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-मूलपादाः वैडूर्या-वैडूर्यरत्नमयाः रुचिराः स्तम्भाः यस्य तत्तथा, तथा जातरूपेण-सुवर्णेनोपचितैः-युक्तैःप्रवरंपञ्चवर्णमणिरलैः कुट्टिमतलं-बद्धभूमितलंयस्य तत्तथा, तथाऽस्य विजयद्वारस्य हंसगर्मरत्नमय एलुको-देहली गोमेदकरत्नमय इन्द्रकीलो-गोपुरकपाटयुगसन्धिनिवेशस्थानं लोहिताख्यं-पद्मरागाख्यं रत्तं तन्मय्यौ द्वारपिण्डयौ-द्वारशाखे सूत्रे स्त्रीत्वनिर्देशआर्षत्वातूज्योतीरसमयं उत्तरङ्ग-द्वारस्योपरितिर्यग्व्यवस्थितं काष्ठंवैडूर्यमयी कपाटौ लोहिताक्षमय्यो लोहिताक्षरतात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभाव हेतुपादुकास्थानीयाः तत्र वज्रमयाः सन्धयः-सन्धिमेलाः फ्लकानां । किमुक्तं भवति ?
वज्ररलापूरिताः फलकानां सन्धयः, तथा नानामणिमयाः समुद्गका-चूलिकागृहाणि, तानि नानामणिमयानि, यत्रन्यस्तो कपाटौनिश्चलतया तिष्ठतः, वज्रमयाअर्गलाअर्गलापरासादाः, तत्रार्गलाः प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, रजतमयी आवर्तनपीठिका, आवर्तनपीठिका च यत्रेन्द्रकीलो भवति, तथा अा-अमरत्नमया उत्तरपार्वा यस्य तत्तथा, निर्गता अन्तरिका-लध्वन्तररूपाययोस्तौ निरन्तरिकौ अतएव घनकपाटौ यस्य तत्था भित्तिसु
चेव भित्तिगुलिया छप्पन्ना तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोर्मित्तिषु भित्तिषु गता भित्तिगुलिकाः पीठकसंस्थानीयाः तिम्रः षट्पञ्चाशतः षट्पञ्चाशत्रिकप्रमिता भवन्ति, अष्टषष्टयधिकं शतमित्यर्थः, तथा गोमानस्यः-शय्याः तावन्मात्राः-षट्पञ्चाशतत्रिकप्रमिताः, नानामणिरलमयानि व्यालरूपाणि फलिरूपकाणि, लीलास्थितशालभञ्जकाश्च-लीलास्थितपुत्रिका यत्र तत्तथा, तथा तस्य द्वारस्य वज्रमयः, कूटो-माढभागः रजतमय उत्सेधः, शिखरं केवलं, शिखरमत्रतस्यैवमाढभागस्यसम्बन्धिद्रष्टव्यंन द्वारस्य, तस्यप्रागेवोक्तत्वात, सर्वात्मना ततपनीयमय 'उल्लकः' उपरिभागः 'नानामणिरयणजालप-अरमणि०' इति मणयो-मणिमया वंशा येषां तानि मणिवंश- कानि तथा लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशाः येषां तानि लोहिताक्षप्रतिवंशकानि, तथा रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात् समासान्तो मकारस्य च द्वित्वं,मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि ।
-नानामणिरत्लानि-नानामणिरत्नमयानिजालपंजराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात, 'अङ्कामया पक्खा इत्यत आरभ्य रययामए छाणे इत्यन्तानि पद्मवरवेदिकावद्भावनीयानि, 'अंकामयकणगकूडतवणिजथूभियागे' इति, अङ्गमयं-बाहुल्येनाङ्करलमयंपक्षबाह्वादीनामङ्करलात्मकत्वात् कनकं कनकमयंकूट-महच्छिखरं यस्य तत्तथा, तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तथा, ततः पदत्रयस्य पदद्वयमीलनेन २ कर्मधारयः, एतेन यत्प्राक् सामान्येनोत्क्षिप्तं 'सेए वरकणगथूभियागे' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org