SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ ४९ इत्यर्थः सुघृष्टा अतिशयेन मसृणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! आईणगेत्यादि सुगममिति । ___अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्थण मिति अत्र व्याख्या-तत्रतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंसथानसंस्थितपृथिवीशिलापट्टकेषुणमितिपूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकायप्रसारणेन वर्तन्ते, नतु निद्रां कुर्वन्ति, तेषां देवयोनिकतया निद्राया अभावात्, अत्रोपलक्षणात् 'चिटुंती'त्यादिकः पाठो जीवाभिगमोक्तो लिखितोऽस्ति, तिष्ठन्तिऊर्ध्वस्थानेन वर्तन्त निषीदन्ति-उपविशन्ति 'तुअटुंति'त्तित्वग्वर्तनं कुर्वन्ति वामपर्वतः परावृत्य दक्षिणपाइँनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्य वामपाइँनावतिष्ठन्त इति, रमन्तेरतिमाबघ्नन्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, तथा क्रीडन्तियथासुखमितस्ततो गमनविनोदेन गीनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति-मैथुनसेवां कुर्वन्ति, इत्येवं । 'पुरा पोराणाण'मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां सुचरितानां, इहसुचरितजनितंकर्मापिकार्यकारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणशान्त्यादिसुचरितानामिति,तथासुपराक्रान्तानांअत्रापिकार्ये कारणोपचारात्सुपराक्रान्तजनितानि कर्माणिसुपराक्रान्तानि इत्युक्तंभवति, सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अतएव शुभानां-शुभफलानां इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभफलप्रतिपत्यर्थमस्यैव पर्यायमाह-कल्याणानांतत्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां अनर्थोपशमकारिणां कल्याणंकल्याणरूपं फलविपाकं पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । तदेवंपद्मवरवेदिकाया बहिस्थितवनखण्डवक्तव्यतोक्ता, सम्प्रति तस्या एवार्वाकस्थितवनखण्डवक्तव्यतामभिधिसुराह-'तीसेणंजगईए' इत्यादि, तस्याजगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको वनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्मेन वेदिका-पद्मवरवेदिका तस्याः समकःतुल्यः परिक्षेपेण, अयं भावः-पद्मवरवेदिकाया यावान् (तावान्) अस्यापि, पद्मवरवेदिकाबहिप्रदेशात अन्तः पंचधनुःशतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, किण्हे'त्तिकृष्णोयावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरंतृणविहीनोज्ञातव्यः, अत्रतॄणजन्यः शब्दोऽपि तृणशब्देनाभिधीयतेउपचारादतस्तृणशब्दविहीनो ज्ञातव्यः, उपलक्षणत्वादस्यमणिशब्दविहीनोऽपि, पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपत्रश्चायमर्थ, जीवाभिगमसूत्रवृत्योस्तथैव दर्शनादिति। सम्प्रति जम्बूद्वीपस्य द्वारसंख्याप्ररूपणार्थमाह मू. (७) जंबुद्दीवस्सणंभंते! दीवस्सकइदारापन्नता, गो०! चत्तारिदारापं०, तं०-विजए १ वेजयंते २ जयंते ३ अपराजिए ४, एवं चत्तारिवि दारा सरायहाणिआ भाणि०। [13 4 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy