________________
४८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६
अच्छणघरगा पेच्छणघरगा मज्झणघरगा पसाहणघरगा गब्मघरगा मोहनघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या-तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशेबहूनिआलिगृहकाणि, आलि-वनस्पतिविशेषस्तन्मयानि गृहकाणि, मालिरपि वनस्पतिविशेषःतन्मयानिगृहकाणि मालिगृहकाणि, कदलीगृहकाणिलतागृहकाणिचप्रतीतानि, अवस्थानगृहकाण येषु यदातदा वाऽऽगत्य बहवः सुखासिकया अवतीष्ठन्ते, प्रेक्षणकगृहकाणि प्रेक्षणकानि विदधति नरीक्ष्यन्ते च, मजन० यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, प्रसाधनगृ० यत्रागत्य स्वं परं च मण्डयन्ति, गर्भगृहाकाराणिमोहन० मोहनं-मैथुनसेवा तत्प्रधानानि गृहकाणिवासभवनानीति भावः, शाला०-पट्टशालाप्रधानानि गृहकाणिजाल०--जालयुक्तानि गृहकाणिकुसुम०-कुसुमप्रकरोपचितानि गृहकाणि चित्र०-चित्रप्रधानानि गृहकाणि गन्धव०-गीतनृत्या-भ्यासयोग्यानि गृहकाणि, आदर्श०-आदर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः स्वार्थिको-ऽवसेयः, एतानि कथंभूतानीत्याह–'सब्बरयणामयाई' इत्यादिप्राग्वत्, “तेसुणंआलिधरेसुंजाव आयंसधरेसु बहूईहंसासणाईजाव दिसासोवस्थियासणाइंसबरयणामयाईजावपडिरूवाई" इति गतार्थम्,
अधमण्डपकसूत्र यथा-"तस्सणंवनसंडस्स तत्थ तत्थ देसेतहिंतहिं बहवेजाइमंडवगा जूहियामंडवगा मल्लियामं० नोमालियामं० वासंतीमं० दधिवासुयामं० सूरिल्लिमं० तंबोलीम० णागलयाम० अतिमुत्तयम० अप्फोआमं० मालुआम० सव्वरयणामया जाव निचं कुसुमिया जावपडिरूवा" अत्र व्याख्या-'तस्ये त्यादि पदयोजनासुगमा, जाति-मालती तन्मया मण्डपकाः जातिमण्डपकाः, एवं उत्तरत्रापि पदयोजना कार्या, यूथिका प्रतीता मल्लिका- विचकिलः, वनमालिकावासन्ती स्पष्टे, एतेचपुष्पप्रधाना वनस्पतयः, दधिवासुका नामवनस्पति-विशेषः, सूरिल्लिपरिस एव, ताम्बूली-नागवल्ली नागो-द्रुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा प्रसृता सा लतेत्यभिधीयते, अतिमुक्तक:-पुष्पप्रधान- वनस्पति 'अप्फोआ' वनस्पतिविशेषः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्तामण्डपका मालुकामंडपका, एते च कथंभूता इत्याह-सव्वरयणामया' इत्यादि प्राग्वत् ।
तेसुणंजाइमंडवगेसुजाव मालुआमंडवगेसुबहेव पुढविसिलावट्टगापन्नत्ता, अप्पेगइया हंसासणसंठिया अ० कोंचासणसंठिआ अ० गरुडासणसंठिआ अ० उण्णयासणसंठिया अ० पणयासणसंठिआअ० दीहासणसंठियाअ० भद्दासणसंठियाअ० पक्खासणसंठियाअ० मगरासणसंठिया अ०पउमासणसंठिआ अ०सीहासणसंठिया अ०दिसाओवत्थियासमसंठिया अप्पेगे बहवे वरसयणासणविसिट्ठसंठाणसंठिया प० समणाउसो ! आईणगरुअबूरनवनीयतूलफासमउआ सव्वरयणामया अच्छा जाव पडिलवा' अत्र व्याख्या-तेषु जातिमण्डपकेषु यावत् मालुकामण्डषकेषु बहवः शिलापट्टकाः प्रज्ञप्ताः, तद्यथा-अपि ढार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं-भावेक्तप्रत्ययविधानात् संस्थानं येषां तेतथा, एवंक्रोच्चासनसंस्थितादिष्वपि वायं, अन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानिच वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः क्वचित् 'मांसलसुधट्टविसिहसंठाणसंठिया' इतिपाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसला-अकठिना
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org