________________
५०४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३१
॥॥ 'पुर्वेषुजाता दातारः, संग्रामे स्थायिनां जयः।
___अन्येषु त्वन्यसेवार्ता, यायिनां च सदा जयः॥' इत्यादि।
अथ पूर्णिमामावास्याद्वारम्-'कति णं भंते !' इत्यादि, कति भदन्त ! पूर्णिमा:परिस्फुटषोडशकलाकचन्द्रोपेतकालविशेषरूपाः, पूर्णेनचन्द्रेण निवृत्ता इतिव्युत्पत्तेः भावादिमः इतीमप्रत्यये रूपसिद्धिः, कति अमावास्याः-एककालावच्छेदेनैकस्मिनक्षत्रे चन्द्रसूर्यावस्थानाधारकालविशेषरूपाः, अमा-सहचन्द्रसूरीं वसतोऽस्यामितिव्युत्पत्तेः,औणादिकेऽप्रत्यये स्त्रीलिङ्गे डीप्रत्यये, प्रज्ञप्ताः, गौ० जातिभेदमधिकृत्य द्वादश पूर्णिमाः द्वादश अमावास्याः प्रज्ञप्ताः
तधथा-श्रविष्ठा-धनिष्ठातस्यांभवा श्राविष्ठी-श्रावणमासमाविनीप्रौष्ठपदा-उत्तरभद्रपदा तस्यां भवा प्रौष्ठपदी-भाद्रपदभाविनीअश्वयुग्-अश्विनी तस्यांभवा आश्वयुजी-आश्विनेयमासभाविनी, एवं कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठामूली आषाढी इति, प्रश्नसूत्रे पूर्णिमामावास्ययोर्भेदेन निर्देशेऽपि उत्तरसूत्रे यदभेदेन निर्देशस्तन्नामैक्यदर्शनार्थ, तेनामावास्या अपि श्राविष्ठी प्रौष्ठपदी आश्वयुजी इत्यादिभिर्व्यपदेश्याः, ननु श्राविष्ठी पूर्णिमा श्रविष्ठायोगाद्भवति, अमावास्यातुश्राविष्ठीनतथा, अस्याअश्लेषामघायोगस्य भणिष्यमाणत्वात्, उच्यते, श्राविष्ठी पूर्णिमा अस्येति श्राविष्टः-श्रावणमासःतस्येयं श्राविष्ठी श्रावणमासभाविनीत्यर्थः, एवं प्रौष्ठपद्यादिष्वमावास्यासु वाच्यं ।
सम्प्रति नक्षत्रैरेकैकापौर्णिमासी परिसमाप्यतेतानि पिपृच्छिषुराह-श्राविष्ठीं पौर्णमासी भदन्त ! कति नक्षत्राणि योगं योजयन्ति-योगं कुर्वन्ति ?, कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, भग०-गौ० त्रीणि नक्षत्राणियोगंयोजयन्त, त्रीणि नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु क्वाप्यभिजितः परिसमापकादर्शनात्, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमितितदपिपरिसमापयतीत्युक्तं, किञ्च-सामान्यतइदं श्राविष्ठीसमापकनक्षत्रदर्शनंज्ञेयं, पञ्चस्वपि श्राविष्ठीषुपूर्णिमासुकांपूर्णिमां किंनक्षत्रंकियत्सुमुहूर्तेषु कियत्सु भागेषुकियत्सुप्रतिभागेषु च गतेषुगम्येषुच परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थं त्विदं प्रवचनप्रसिद्ध करणं भावनीयं॥१॥ नाउमिह अमावासंजइ इच्छसि कमि होइ रिक्वमि।
____ अवहारं ठावेज्जा तत्तिअरूवेहिं संगुणिए॥ याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यतेप्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशि तमवधार्यराशिं पट्टिकादी स्थापयित्वा सङ्गुणयेत्, अथ किंप्रमाणोऽसावधार्यराशिरिति तप्रमाणनिरूपणार्थमाह॥२॥ 'छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुण्णा ।
बासट्ठिभागसत्तढ़िगो अएको हवइ भागो॥ . षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावतप्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org