SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ५०५ किं लभामहे ?, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशि पञ्चकलक्षणो गुण्यते जाता दश तेषां च चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदक- राश्योर्द्विकेनापवर्त्तनाजात उपरितनश्छेद्यो राशि पञ्चकरूपोऽधस्तनो द्वाषष्टिरूपः लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिस्त्रिंशदधिकैः शतैः सप्तष- ष्टिभागरूपैः गुण्यन्ते जातानि एकनवति शतानि पञ्चादधिकानि, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्ट्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, उपरितनराशिर्मुहूर्त्तानयनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिसहस्राणि पचं शतानि तेषा चतुष्पंचाशदधिकैकचत्वारिंशच्छतैर्भागहरणं लब्धाः षट्षष्टिर्मुहूर्त्ताः शेषा अंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि ततो द्वाषष्टिभागा- नयनार्थं तानि षष्ट्या गुण्यन्ते जातानि विंशतिसहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि तेषामनन्तरोक्तच्छेदराशिना ४१५४ भागो हियते लब्धाः पंच द्वाषष्टिभागाः शेषास्तिष्ठन्ति द्वाषष्टिः ततश्चास्या द्वाषष्ट्या अपवर्त्तना क्रियते जात एकः छेदराशेरपि द्वाषष्ट्याऽपवर्त्तनायां जाता सप्तषष्टिः, आगतं षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पंच परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति तदेवमुक्तमवधार्यराशिप्रमाणं, सम्प्रति शेषविधिमाह'एअमवहाररासिं इच्छअमावाससंगुणं कुज्जा । तत ॥ ३ ॥ नक्खत्ताणं इत्तो सोहणगविहिं निसामेह ॥' एनं - अनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुणं - याममावास्यां ज्ञातुमिच्छति तत्संगुणितं कुर्यात्, अत ऊर्ध्वं च नक्षत्राणि शोधनीयानि ततोऽत ऊर्ध्वं नक्षत्राणां शोधनकविधिशोधनप्रकारं वक्ष्यमाणं निशामयत - आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह'बावीसं च मुहुत्ता छायालीसं बिसट्ठिभागा य । ॥४॥ एवं पुणव्वसुरस य सोहे अव्वं हवइ पुष्णं ।।' द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः एतत्-एतावत्प्रमाणं पुनर्वसु नक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कथमेवप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् ?, उच्यते, यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकं पर्वातिक्रम्य कति पर्यायास्तेनैकेन पर्वणा लभ्यन्ते ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते जाताः पञ्चैव, 'एकेन गुणितं तदेव भवतीति वचनात् तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनाय एतेऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुणयितव्या इति गुणकारराशिच्छेदराश्योर्द्विकेना- पवर्त्तना जातो गुणकारराशि नव शतानि पञ्चदशोत्तराणि छेदराशिर्द्वाषष्टिः । तत्र पञ्च नवभि शतैः पञ्चदशोत्तरैर्गुण्यंते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि छेदराशिर्द्वाषष्टिलक्षणः सप्तषष्ट्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तथा पुष्यस्य त्रयोविंशतिभागाः प्राक्तन- युगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्ट्या गुण्यन्ते जातानि चतुर्दश शतानि षड्विंशत्यधिकानि तानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशत्प्रमाणात् शोध्यन्ते, शेषं तिष्ठति एकत्रिंशच्छतानि एकोनपञ्चाशदधिकानि, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy