________________
५००
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/३२२ यथाऽधुना सर्वाण्यप्येकदिनभोगानी ति श्रीमदावश्यकबृहदृत्तिटिप्पनके, एषां चोपयोगः । ॥१॥ "दुन्नि उदिवद्धखित्ते दब्ममया पुत्तला उ कायव्वा ।
समखित्तंमि अइक्को अवद्धखित्ते न कायव्यो॥ इत्यादि उक्तश्चन्द्रयोगः, अथ रवियोग:मू. (३२३) अवसेसा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता।
चंदमि एस जोगो नक्खत्ताणं मुणेअव्यो ।। वृ. 'एतेसिणंभंते!' इत्यादि, एतेषां भदन्त! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिनक्षत्रं कति अहोरात्रान् सूर्येण सार्द्ध योगं योजयति ?, गौतम ! चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योग योजयति, कथमिति चेत्, उच्यते, यन्नक्षत्रमहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तनक्षत्रं तावतः एकविंशत्यादीनित्यर्थः पञ्चभागान्-रात्रिन्दिवस्य पञ्चमांशरूपान, तैः पञ्चभिरेकं रात्रिन्दिवं भवतीत्यर्थः, सूर्येण समं व्रजति, इदमत्र हृदयं यस्य नक्षत्रस्य यावंतः सप्तषष्टिभागाश्चन्द्रयोगयोग्वास्ते पञ्चभिर्भज्यन्ते, लब्धतत्पञ्चमभागात्मकमहोरात्रं, शेषं त्रिंशता गुणयित्वा पञ्चभिर्भज्यते लब्धं मुहूर्ताः, उक्तंच
“जं रिक्वं. जावइए वच्चइ चन्देण भागसत्तट्ठी।
तंपणभागेराइंदिअस्स सूरेण तावइए॥"त्ति। मू. (३२४) एतेसिणंभंते ! अट्ठवीसाए नक्खत्ताणं अभिईनक्खत्ते कति अहोरते सूरेण सद्धिं जोगंजोएइ?, गो० ! चत्तारि अहोरत्ते छच्च मुहुत्ते एवं इमाहिं गाहाहिं नेअव्वंमू. (३२५) अभिईछच्च मुहुत्ते चत्तारि अकेवले अहोरत्ते।
सूरेण समं गच्छइ एत्तो सेसाण वोच्छामि। वृ. तद्यथा-अभिजिन्नक्षत्रमेकविंशति सप्तषष्टिभागान् चन्द्रेण समवर्तते ततः एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एकविंशतेश्च पञ्चभिर्भागे हते लब्धाः षट् मुहूर्ता इति, एवमभिजिन्यायेन शेषनक्षत्राणां सूर्ययोगकालप्ररूपणं इमाभिर्वक्ष्यमाणाभिर्गाथाभिर्नेतव्यं, तत्राभिजिन्नक्षत्रं षण्मुहूर्तान् चतुरश्च केवलान्-परिपूर्णान् अहोरात्रान् सूर्येण समं गच्छति, अत्रोपपत्ति प्रथमतएव कृता, अथऊर्ध्वं शेषाणां नक्षत्राणां सूर्येण समंयोगान् कालपरिमाणमधिकृत्येति गम्यं वक्ष्यामि। मू. (३२६) सयमिसया भरणीओ अद्दा अस्सेस साइ जेट्टाय।
वचंति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ।। वृ. तथाहि-शतभिषक् भरणी आर्द्रा अश्लेषा स्वाति ज्येष्ठा चेत्येतानि षट् नक्षत्राणि प्रत्येकं सूर्येण समं व्रजन्ति मुहूनिकविंशतिं षट् चाहोराबानिति, तद्यथा-एतानि नक्षत्राणि चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत् संख्यान् सप्तषष्टिभागान् व्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं व्रजन्तीति प्रत्येकं प्रागुक्तकरणप्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षट् अहोरात्राः शेषाः परिपूर्णमुहूर्तानयनाय दशभिर्भागो ह्रियते लब्धाएकविंशतिर्मुहूर्ता। मू. (३२७) तिन्नेव उत्तराईपुनव्वसू रोहिणी विसाहाय।
वचंति मुहुत्ते तिन्नि चेव वीसं अहोरते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org