SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ६७ वक्षस्कारः-७ ४९९ सप्तषष्टिधा छिन्नस्य षट्षष्टिभागान् यावदस्य चन्द्रयोग उक्तस्तत्तु पूर्णिमाऽमावास्यापरिसमाप्तिकालभाविनक्षत्रपरिज्ञानोपाये उक्तात् षट्षष्टिर्मुहूर्ताः पञ्च च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छिन्नस्यैकः सप्तषष्टिभाग इत्येवंरूपाद् ध्रुवराशेर्नक्षत्रशोधनाधिकारे सप्तविंशति सप्तषष्टिभागाःदुःशोधा इति सप्तविंशति सप्तषष्टिभागाः सवर्णनाथ द्वाषष्ट्या गुण्यन्ते जातं १६७४ एषां सप्तषष्ट्या भागे हृते आगतं". ६ ।। एव मिति यथाऽभिजित एकविंशतिभागेभ्यः समधिकनवमुहूर्तरूपो योगकाल आनीतस्तथाप्रकारेणेत्यर्थः, इमाभिर्वक्ष्यमाणाभिर्गाथाभिरवगन्तव्यं, चन्द्रयोगकालमानमिति गम्यं, तद्यथा-अभिजितश्चन्द्रयोगः सप्तषष्टिखण्डीकृतोऽहोरात्रः कल्प्यते, ते पूर्वोक्ता एकविंशतिभागाः पूर्वोक्तेन करणेन नव मुहूर्ताः सप्तविंशतिश्च कला भवन्ति तथा शतभिषक् भरणी आर्द्राआश्लेषा स्वातिः ज्येष्ठाचः समुच्चये एतानिषट् नक्षत्राणि पञ्चदश मुहूर्तान् यावत् चन्द्रेण सह संयोगः-सम्बन्धो येषां तानि तथा, तद्यथा-एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रिंशद्भागान्यावच्चन्द्रेण सह योगो भवति ततो मुहूर्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि-नवत्यधिकानि यदपि चार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशी प्रक्षिप्यन्ते जातः पूर्वराशि सहनं पश्चोत्तरं, अस्य सप्तषष्ट्या भागे हृते लब्धा पञ्चदश मुहूर्ता इति । मू. (३२१) सयमिसया भरणीओ अद्दा अस्सेस साइ जेट्टाय। एते छन्नक्खत्ता पन्नरसमुहत्तसंजोगा। वृ. तिस्र उत्तराः-उत्तरफल्गुनी उत्तराषाढा उत्तरभद्रपदा इत्येवंरूपाः पुनर्वसू रोहिणी विशाखा, चः समुच्चये, एतानि एवकारस्य भित्रक्रमत्वादेतान्येवेति योज्यं, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, षट् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावञ्चन्द्रेण सह संयोगो येषां तानि तथा, तद्यथा-अत्रापि षण्णां नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्यार्द्ध चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्तगतभागकरणार्थ शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि पञ्चदशोत्तराणि एतेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्च चत्वारिंशन्मुहूर्ता इति। मू. (३२२) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय।. एएछन्नक्खतता पणयालमुहुत्तसंजोगा। वृ तथा अवशेषाणि-उक्तातिरिक्तानि नक्षत्राणि श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरःपुष्योमघा पूर्वाफाल्गनी हस्तश्चित्राऽनुरामूलः पूर्वाषाढा इतिपञ्चदशापि भवन्ति त्रिंशन्मुहूर्तानीति-त्रिंशन्मुहूर्तान्यावच्चन्द्रेण सहयोगमश्नुवते, तद्यथा-एषांपञ्चदशानां नक्षत्राणां चन्द्रेण सह सम्पूर्णमहोरात्रं यावद्योगस्ततो मुहूर्तगतभागकरणार्थं सप्तषष्टि त्रिंशता गुण्यतेजाते द्वे सहस्रेदशोत्तरेएषांचसप्तषष्ट्या भागेवतेलब्धास्त्रशन्मुहूर्ता इति, चन्द्रे-चन्द्रविषये एषः-अनन्तरोस्तो योगो नक्षत्राणांज्ञातव्य इति । एतानि चाभिजिद्व निक्रमेणार्द्धनद्रव्यर्द्धक्षेत्रसमक्षेत्रसंज्ञकानि सिद्धान्ते रूढानि, एषां किल चिरन्तनज्योतिशास्त्रष्वेवं भूक्तिरासीत् नतु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy