SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३१५ वृ. अथ संस्थानद्वारम्- 'एतेसि ण' मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां अभिन्निक्षत्रं कस्येव संस्थितं - संस्थानं यस्य तत्तथा, प्रज्ञप्तम् ?, गौतम ! - ४९८ मू. (३१६) गोसीसावलि १ काहार २ सउणि ३ पुप्फोवयार ४ वावी य ५-६ । नावा ७ आसक्खंधग ८ भग ९ छुरघरए १० अ सगडुद्धो ११ ॥ भू. (३१७) मिगसीसावलि १२ रुहिरबिंदु १३ तुल्ल १४ वद्धमाणग १५ पडागा १६ । पागारे १७ पलिअंके १८१८ हत्ये २१० मुहफुल्लए २१ चेव ॥ मू. (३१८) स्त्री लग २२ दामणि २३ एगावली २४ अ गयदंत २५ विच्छुअसले य २६ । गयविक्रमे २७ अ तत्तों सीहनिसीही य २८ संठाणा ॥ वृ. गोशीर्ष तस्यावली - तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समसंस्थानं प्रज्ञप्तम्, एवं शेषनक्षत्रसंस्थानानि ज्ञेयानि तानीमानि - अभिजितोगोशीर्षावलिसंस्थानं श्रवणस्य कासारसंस्थानं धनिष्ठायाः शकुनिपञ्जरसंस्थानं शतभिषजः पुष्पोपचारसंस्थानं पूर्वभद्रपदायाः अर्द्धवापीसंस्थानं उत्तरभद्रपदाया अप्यर्द्धवापीसंस्थानं एतदर्द्धवापीद्वयमीलनेन परिपूर्णा वापी भवति तेन सूत्रे वापीत्युक्तं, अतः संस्थानानां न संख्यान्यूनता विचारणीया, रेवत्या नौसंस्थानं, अश्विन्याः अश्वस्कन्धसंस्थानं, भरण्याः भगसंस्थानं, कृत्तिकायाः क्षुराधारसंस्थानं, रोहिण्याः शकटोद्धिसंस्थानं, मृगशिरसः मृगशीर्षसंस्थानं, आर्द्राया रुधिरबिन्दुसंस्थानं, पुनर्वस्वोः तुलासंस्थानं, पुष्यस्य सुप्रतिष्ठितवर्द्धमानकसंस्थानं, अश्लेषायाः पताकासंस्थानं, मघायाः प्राकारसंस्थानं, पूर्वफल्गुन्या अर्द्धपल्यङ्कसंस्थानं उत्तरफल्गुन्या अप्यर्द्धपल्यङ्कसंस्थानं, अत्रापि अर्द्धपल्यङ्कद्वयमीलनेन परिपूर्ण पल्यङ्क भवति तेन संख्यान्यूनता न, हस्तस्य हस्तसंस्थानं, चित्रायाः मुखमण्डनसुवर्णपुष्पसंस्थानं, स्वातेः कीलकसंस्थानं, विशाखायाः दामनिः - पशुरज्जुसंस्थानं, अनुराधाया एकावलिसंस्थानं, ज्येष्ठायाः गजदन्तसंस्थानं मूलस्य वृश्चिकलांगूल- संस्थानं, पूर्वाषाढायाः गजविक्रमसंस्थानं, उत्तराषाढायाः सिंहनिषीदनसंस्थानं इति संस्थानानि । अथ चन्द्रवियोगद्वारम् - मू. (३१९) एतेसि णं भंते! अट्ठावीसाए नक्खत्ताणं अभिईनक्खत्ते कतिमुहुत्ते चंदेण सद्धिं जोगं जोएइ ?, गोअमा ! नव मुहुत्ते सत्तावीसं च सत्तट्टिभाए मुहुत्तस्स चंदेण सद्धिं जोगं जीएइ, एवं इमाहिं गाहाहिं अनुगंतव्वं वृ. 'एतेसि ण' मित्यादि, एतेषां च भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं कति मुहूर्तान् चन्द्रेण सार्द्ध योगं योजयति ?, सम्बन्धं करोतीत्यर्थः, गौ० नव मुहूतांन् एकस्य च मुहूर्तस्य सप्तविंशतिं सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं योजयति, कथमेतदवसीयते ? मू. (३२०) अभिइस्स चंदजोगी सत्तट्टिसेंडिओ महोरतो । ते हुति नव मुहुत्ता सत्तावीसं कलाओ अ॥ वृ . इहाभिजिन्नक्षत्रं सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिभागान् चन्द्रेण सह योगमुपैति, तेच एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं ओहारात्रे त्रिंशन्मुहूर्ता इति त्रिंशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्त्ता एकस्य मुहूर्तस्य सप्तविंशति सप्तषष्टिभागा अयं च सर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तु श्री अभयदेयसूरिपादेः समवायाङ्गे नवमसमवाय वृत्तौ नव मुहूर्तान् चतुर्विंशतिं च द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy